________________
संस्कृतगाथासप्तशती ।
[ हृदये वससि न करोषि मन्युं तथापि स्नेहभृताभिः । शङ्कयले युवतिस्वभावगलितधैर्याभिरस्माभिः ॥ ]
६ शतकम् ]
हृदये वससि न कुरुषे मन्युं तदपीह रागभरिताभिः । युवतिस्वभावविगलितधैर्याभिः शासेस्माभिः ॥ ८ ॥
हृदये वससि, त्वां सर्वदैव हृदि चिन्तयामि, सुभृशं मे त्वयि प्रणय इत्याशयः । त्वमपि संप्रति अन्योपगमनादिना मम मन्युं शोकं नोत्पादयसि । अथवा मदुपरि क्रोधं न करोषि । तथाप्यग्रे विरक्तो भविष्यसीति स्नेहभरिताभिरस्माभिः शक्य से । स्नेहः पापशङ्कीति कृत्वा संप्रति स्नेहं दर्शयत्यपि त्वयि अग्रे त्वं विरंस्यसे इति संशयो भवतीत्याशयः । मम प्रणयस्तावान्प्ररूढो यद् भविष्यत्काले प्रणय प्रतिदाने मनाक् त्रुटिशङ्कयापि धैर्यं विगलति । एवं च - मत्प्रणयमनुरुध्य भवतापि सर्वदा प्रणयपरेण भाव्यमित्यभिव्यज्यते । किं वा त्वं मम सर्वदा हृदये निवससीत्येकान्तप्रियः । किं च सपत्नीसमागमादिभिर्मम क्रोधमपि न जनयसि । तथापि युवतिस्वभाववशादधीराभिरस्माभिः क्षणविलम्बेपि 'अन्यत्र तु न गतो भवेत् ?" इति केवलं शङ्क्यसे । अत एव शङ्कावशास्खस्मासु प्रेमस्वभावोयमिति मत्वा न विमनायितव्यमित्यर्थः । अस्माभिरिति बहुवचनेन - ममैव केवलं न, अपि तु सर्वासामेवानुरागिणीनां सोयं स्वभाव इति प्रणयं प्रत्याकूतमभिव्यज्यते ।
२६१
आत्मनः प्रणयातिशयं संसूच्य भार्यापरतन्त्रं निजप्रियतमं साकूतमुपालभमाना काचिद् हृदयामन्त्रणव्याजेनाह
अण्णं पि किं पि पाविहिसि मूढ मा तम्म दुक्खमेत्तेण । हिअअ पराही जणं मग्गन्त तुह केत्तिअं एअम् ॥ ९ ॥ [ अन्यदपि किमपि प्राप्स्यसि मूढ मा ताम्य दुःखमात्रेण । हृदय पराधीनजनं मृगयमाण तव कियन्मात्रमिदम् ॥ ] अन्यदपि किञ्चिदाप्स्यसि विमूढ मा ताम्य दुःखमात्रेण । हृदय पराधीनजनं तव विमृगयमाण कियदेतत् ॥ ९ ॥ हे हृदय ! सांप्रतं वियोगदुःखमात्रेण मा दूयेथाः । अग्रे किञ्चिदन्यदपि कथाशेषतामपि प्राप्स्यसि । परतन्त्रं जनं प्रार्थयमान हे मूढ विरहदुःखमिदं तव कृते कियत् ? अतिन्यूनमित्यर्थः । विमूढेत्यामन्त्रणेन - प्रेमवशान्निर्बोधेन मम हृदयेन अन्यत्र दत्तहृहये जने प्रणयसमर्पणं कृतमिति प्रियं प्रतीर्ष्याभिव्यज्यते । हृदयस्य निन्दां कुर्वत्या नायिकया निजभार्यासक्तस्योपपतेर्निन्दा सूचितेति व्याज निन्दालङ्कृतिः । अनया च- 'अहं त्वयि हृदयं समर्प्य प्राणापगमेपि प्रणयपालनार्थं संनद्धा । अन्यवशीकृतो भवांस्तथापि मे प्रणयं न परिज्ञातवान्' इति निभृतमुपालम्भो ध्वन्यते । कथा शेषतादिपर्यायैरपि मरणसंकीर्तनममङ्गलतां स्पृशतीति किञ्चित्पदेनोक्तम् । अहो दाक्षिण्यं गाथागुम्फितुः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org