________________
२६२
काव्यमाला |
निर्भरानुरागिण्या मम प्रणयमनभिनन्द्य विरक्तायामन्यस्यामनुरक्तोसीति नायकमुपालभमाना काचित्सवैदग्ध्यमाह -
सोसि जीअ पंसुल अहिअअरं सा हु वल्लभा तुज्झ । इअ जाणिऊण वि मए ण ईसिअं दडपेम्मस्स ॥ १० ॥ [ द्वेष्योऽसि यस्याः पांसुल अधिकतरं सा खलु वल्लभा तव । इति ज्ञात्वापि मया न ईष्यितं दग्धप्रेम्णः ॥ ]
द्वेष्यसि हन्त यस्याः पांसुल सा वल्लभा तवाभ्यधिकम् । इति विज्ञायापि मया दग्धप्रेम्णे न चेष्यितं जातु ॥ १० ॥
या त्वां द्वेष्टि सा मे सपत्नी तवाधिकतरं वल्लभा इति प्रेम्णः असमीक्ष्यकारितां परिज्ञायापि मया अस्मै प्रेमहतकाय ईर्ष्या न कृता । अदूरदर्शि यद्धि प्रेम द्वेष्येप्यासक्तिं स्थापयति, अनुचितकारि तद्धि प्रेम मया ईयितव्यमासीत्परं मया ईर्ष्या न कृता । यतोहं त्वय्यासक्ता, अत एव मयेदं प्रेम अभिनन्दितमेव न जातुचिदीयित मित्यर्थः । अथवा - दग्धप्रेम्णे प्रेमहतकस्य निमित्तं तुभ्यमीर्ष्या न कृता । त्वं द्वेषकारिण्यां तस्यां रक्तोसि, अनुरक्तायामपि च मयि विरक्तोसि तथा च द्वेषकारके एव जने त्वमनुरज्यसीति त्वन्निसर्ग ज्ञात्वा तुभ्यमहमीर्ष्यामकरिष्यम् परं प्रणयपरवशा नेदं कर्तुमशक्नवमित्याशयः । 'पांसुल' इत्यनेन - एवमनुचितकारितया स्पष्टं त्वं दोषभागिति सूच्यते । अहमन्यासक्तहृदयेपि त्वयि भृशमनुरज्यामि । त्वं तु मत्प्रीतिप्रतिदानं दूरमास्ताम्, द्वेषिणीं तामनुवर्तमानः स्वस्य हिताहितमपि न परिचिनोषीति गूढ उपालम्भोभिव्यज्यते । गङ्गाधरेण तु प्राकृते चतुर्थ्यार्थिकां षष्ठीं संस्कृतेपि 'दग्धप्रेम्णः' इति यथास्थितं स्वीकृत्य चतुर्थीपञ्चम्योरर्था आकृष्टा इत्यलम् ।
अन्यनायिकाया गुणादीन्प्रशंसन्तं कान्तं काचित्सेर्ण्यमाह -
"
सा आम सुहअ गुणरूअसोहिरी आम णिग्गुणा अ अहम् | भण तीअ जो ण सरिसो किं सो सन्चो जणो मरउ ॥ ११ ॥
[ सा सत्यं सुभग गुणरूपशोभनशीला सत्यं निर्गुणा चाहम् । भण तस्या यो न सदृशः किं स सर्वो जनो त्रियताम् ॥ ] गुणरूपशोभिनी सा सत्यं सुभगास्मि निर्गुणा सत्यम् ।
भण तस्या यो न समः किं स हि सर्वो जनो म्रियताम् ॥ ११ ॥
Jain Education International
मूले 'आम' इति ईर्ष्यासहितानुमतौ । संस्कृते काका उच्चार्यमाणं सत्यपदं तदर्थं साधयति । हे सुभग सत्यम् ! सा भवत्प्रेयसी गुणरूपशोभिनी । सत्यम् ! अहं निर्गुणा । सुभगेत्यामन्त्रणसहकारेण यथा त्वमात्मानं सुभगं मन्यसे तथा तामपि गुणरूपशोभिनीं मां च निर्गुणां मन्यसे, परं वास्तवे रागान्धो भवान् गुणरूपादिकं विवेक्तुमेव न जानाति ।
For Private & Personal Use Only
www.jainelibrary.org