________________
६ शतकम् ] संकृतगाथासप्तशती।
२६३ सा ह्यधमा । अहं च अन्यासक्तमपि भवन्तं निरन्तरमनुवर्तमाना शीलसौन्दर्यगुणादिभिर्युक्ता' इति ध्वन्यते । उत्तरार्धेन-तस्या बाह्यसौन्दर्यादिभिस्त्वं तथा मुग्धोसि, यथा मत्सांनिध्यमपि नाभिनन्दसीति सकोपोपालम्भो व्यज्यते। लज्जाव्यतिक्रमनिवारणाय निजवधूं शिक्षयन्ती काचित्पुरन्ध्री पुत्रमुद्दिश्याह
सन्तमसन्तं दुक्खं सुहं च जाओ घरस्स जाणन्ति । ता पुत्तअ महिलाओ सेसाऔं जरा मनुस्साणम् ॥ १२ ॥ [सदसढुःखं सुखं च या गृहस्य जानन्ति ।
ताः पुत्रक महिलाः शेषा जरा मनुष्याणाम् ॥] सदसदुःखं च सुख गृहस्य या जानते नूनम् ।
ताः सन्ति पुत्र महिलाः शेषा हि जरा मनुष्याणाम् ॥ १२॥ या महिला गृहस्य गृहवर्तिनां जनानाम्, कीर्तिकरम् अकीर्तिकरं च दुःखं सुखं च जानन्ति ता एव महिला महिलापदवाच्याः, अर्थात् गृहिणीपदाधिकारिण्यः । अन्यास्तु वयःक्षयकरत्वाजरा एव । शरीरसंबद्धा शनैः शनैः शरीरक्षयकारिण्यपि जरा यथा त्यक्तुं न शक्यते तथा कुलापकीर्ति विचार्य यद्यपि सापि त्यक्तुं न शक्यते अथापि प्रतिक्षणं नाशहेतुत्वबुद्ध्यावधीर्यत इति जरात्वरूपणेन ध्वन्यते । गृहस्येत्यनेन-न केवल गृहपतेरेकस्य द्वयोर्वा सुखदुःखादिविचारो गृहवधूष्वायत्तः, अपि तु संपूर्णजनानामिति भारातिशयो द्योत्सते । 'दुर्लभाभिलाषिणीं खगृहवy प्रति वैराग्यजननार्थ कोपि पुत्रमाह' इत्यवतरणम् । 'सद्विद्यमानम् । असदविद्यमानं वस्तु' इति च गङ्गाधरकृता व्याख्या । मानालम्बने कुलमहिलानां चरित्रं शिक्षयन्ती वयःप्रौढा सखी सखीमाह
हसिएहिँ उवालम्भा अचुवचारेहिं रूसिअव्वाई ।
अंसूहि मण्डणाई एसो मग्गो सुमहिलाणम् ॥ १३ ॥ . [हसितैरुपालम्भा भत्युपचारैः खेदितव्यानि ।
__ अश्रुभिः कलहा एष मार्गः सुमहिलानाम् ॥] हसितैश्चोपालम्भा अत्युपचारैश्च रोषितव्यानि ।
अश्रुलवैः किल कलहा एष हि मार्गः सुमहिलानाम् ॥ १३॥यासां महिलानां हसितैरुपालम्भा भवन्ति न रोदनैः । आवश्यकतातोऽधिकैः कृत्रिमादरैः रोषा भवन्ति न गृहकार्यवैमुख्येन । अश्रूणां लेशैरेव प्रणयकलहा भवन्ति न वाग्वितण्डया। लवपदेन अश्रूणां कैश्चिद्विन्दुभिरेव ताः कलहं सूचयन्ति, न निरन्तररोदनेनेति मूलापेक्षयातिशयो द्योत्यते । ‘रूसिअव्वाई' इति स्थाने 'खिजिअव्वाई' इति पाठं खीकृत्य खेदितव्यानीति व्याख्यानं गङ्गाधरस्य । __ लोकापवादशयैव न संलपितवांस्ते प्रियतमस्तन्माऽन्यथा शङ्कीरिति सान्त्वयन्ती दूतीं प्रति काचित्सप्रणयरोषमाह- ...
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org