________________
२६४
काव्यमाला |
उल्लावो मा दिजउ लोअविरुद्ध त्ति णाम काऊण | समुहापडिए को उण सें वि दिट्ठि ण पाडेइ ॥ १४ ॥ [ उल्लापो मा दीयतां लोकविरुद्ध इति नाम कृत्वा । संमुखापतिते कः पुनर्देष्येऽपि दृष्टिं न पातयति ॥ ] उल्लापो मा क्रियतां लोकविरुद्धोयमिति कृत्वा । दृष्टिं न पातयति को द्वेष्येपि हि संमुखापतिते ॥ १४ ॥
अयमुल्लापो लोकविरुद्ध इति कृत्वा विचार्य । द्वेष्येपि संमुखापतिते सति जनो दृष्टिं तु ददात्येवेत्यनेन 'स द्वेष्यतामपि मत्तः परिहरति, यतः सोप्येकः परस्परसंबन्धः । ततश्च - स मया सह कंचिदपि संबन्धमेव न रक्षति' इति उपालम्भातिशयो द्योत्यते । मूलोपात्तं पादपूरकं 'णाम' पदमादाय 'नाम कृत्वा' 'नामग्रहणपूर्वकम्' इति गङ्गाधरकृतमर्थान्तरम् । अनावश्यकस्यापि तस्य यद्यनुरोधस्तर्हि - 'लोकविरुद्धोस्ति नाम कृत्वेति' इति पठितव्यम् । लोकविरुद्धोस्ति इति कृत्वा उल्लापो मा क्रियतां नामेति तद्योजना । तस्मिन्नर्थान्तरे च नाम कृत्वा नामग्रहणपूर्वकमिति च संगतिः । यद्वा- 'परपुरुषभाषणं लोकविरुद्धमिति मा क्रियताम्, कथं पुनस्तमद्राक्षीरपि नेति साध्वीं प्रति कुहन्या इयमुक्तिरिति केचित् ।
प्रियतमायाः प्रणयं यथावदनुपलभमानं कंचिद्धनिकं प्रति स्वाधीनमीननयनः कश्चित्साभिमानमाह—
साहीणपिअअमो दुग्गओ वि मण्णइ कअत्थमप्पाणम् । पिअरहिओ उण पुहविं वि पाविउण दुग्गओ चेअ ।। १५ ।। [ स्वाधीनप्रियतमो दुर्गतोऽपि मन्यते कृतार्थमात्मानम् । प्रियरहितः पुनः पृथिवीमपि प्राप्य दुर्गत एव ॥ ] स्वाधीनप्रियदयितो दीनोपि च मन्यते कृतार्थ खम् । प्रियरहितः पुनरवनीमपि संप्राप्यास्ति दुर्गतो ह्येव ॥ १५ ॥
स्वाधीना प्रिया दयिता यस्य सः । प्रियरहितः प्राणप्रियेण जनेन रहितः । 'अतिक्रान्तसंकेतसमयां प्रियां प्रति कोपि सोद्वेगमाह । यद्वा - किमेवं कृशोसीति पृष्टस्येच्छानुरूपां प्रियामलभमानस्य कस्यचिदियमुक्तिः' इति गङ्गाधरः ।
हृदयानुकूलं दयितमप्राप्य अन्तरेव निर्मनताsतृप्तप्रणयेन नानाविधं क्लेशमनुभवन्तीं कांचिद्रहस्याभिज्ञा सख्याह
किं स्वसि किं अ सोअसि किं कुप्पसि सुअणु एकमेकस्स । पेम्मं विसं व विसमं साहस को रुन्धिउं तरह ।। १६ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org