Book Title: Gathasaptashati
Author(s): Nathuram Shastri
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 357
________________ २७२ काव्यमाला । . शुष्यत्येव च सरसाप्यवैति दुःखानि मुग्धहृदयापि । रक्तापि पाण्डुरैव हि जाता विरहे तव वराकी ॥३३॥ सरसापि त्वत्प्रेमणि साभिलाषापि परितापाच्छुष्यति । त्वत्प्रेम्णा व्यामूढहृदयापि विरहजानि दुःखानि अवैति जानाति । अनुरक्तापि विरहवेदनया पाण्डुरवर्णा जाता। सरसादिपदानां श्लेषेण आर्द्रताद्यपीत्यर्थः । ततश्च-आर्द्रस्य कथं शुष्कता, व्यामूढस्य (अचेतनस्य) कथं दुःखपरिज्ञानम् , अरुणवर्णस्य कथं पाण्डुतेति विरोधः । अनेन चालकारेण 'सुखसाधनमपि सर्व त्वद्विरहे तस्या दुःखसाधनं जातम्' इति वस्तु व्यज्यते । अनुभवतीति स्थाने जानातीत्युक्त्या-त्वयैव विरहं प्रदाय दुःखानां परिचयः कारितः, अन्यथा पूर्व कीदृशानि दुःखानीति परिज्ञानमपि नासीदिति पूर्वमनुभूतसु. खायाः साम्प्रतं नवदुःखानुभवेन वेदनातिशयो ध्वन्यते । वराकीपदेन च-'विपरीतकारिणा दैवेन एवं व्यापद्यमाना साऽवश्यं दयनीया' इति त्वरितोपसर्पणं चरमं ध्वन्यते। सीधुसेवनेनोद्रिक्तमन्मथतया जरन्तमप्यालिङ्गन्ती काच्चन नवयौवनां शरद्वर्णनप्रसलेनोपहसन् सहृदयः कश्चित्सहचरमाह आरुहइ जुण्ण खुजअं विजं उअह वल्लरी तउसी। णीलुप्पलपरिमलवासिअस्स सरअस्स सो दोसो ॥ ३४॥ [भारोहति जीणं कुब्जकमपि यत्पश्यत वेलनशीला पुसी । नीलोत्पलपरिमलवासितायाः शरदः स दोषः ॥] जीर्ण कुलकमप्यारोहति यत्पश्य वेल्लिनी पुसी। शरदो दोषो नीलोत्पलपरिमलवासितायाः सः ॥३४॥ वेल्लतीति वेल्लिनी वेष्टनशीला त्रपुसी ( 'आर्या, तेवरसी' इति ख्याता, कर्कटीविशेषः) यत् शुष्कं वक्रं वृक्षमप्यारोहति, एष फुल्लनीलकमलसौरभायाः शरदो विकारः । प्राकृते 'सरअस्स' इत्यस्य 'शरदः' 'सरकस्य' इत्युभयमप्यर्थः । ततश्च-'सरकोऽस्त्री श्रीधुपाने शीधुपात्रेक्षुशीधुनोः' इति मेदिनीकोषात्-'वेल्लिनी वेष्टिताख्यालिङ्गनशीला त्रपुसीव कोमला नवयौवना वृद्धं नायकं बन्धविशेषवशाद् यदारोहति, सोयं नास्या दोषः, किन्तु कमलसौरभयुक्तस्य सरकस्य इक्षुमद्यस्य इत्यर्थान्तरमपि ध्वन्यते । तथाच-नवयौवनापि सेयं यज्जरन्तमिममालिङ्गति तत्र मधुपानमेव कारण मिति खस्य मर्माभिज्ञता सुहृदं प्रति प्रकटीकृता । गङ्गाधरस्तु-'कामपि गलितयौवनां शीधुपानेन जातमन्मथविकारां शरद्वर्णनच्छलेनोपहसन्नागरिकः सहचरमाह' इति प्रारम्भे अवतरणं विधायापि, मध्ये-'कर्कट्याः पुनर्नवीकरणं जरत्याश्च युवतीकरणं विकारः' इति वृद्धायाः कस्याश्चित्कामविकारकथां जगौ । अन्ते च 'शरत्काले कर्कटीलता यदेव पुरःस्थितं शुष्कमाई वा सरलं वक्र वा, तदेवारोहति, तथा लतेव लता नायिका वृद्धं वा तरुणं वा यद्भजते नायमस्या दोषः, किन्तु इथुमद्यस्येति' पुनर्युवत्याः वृद्धाश्रयणमालपित Jain Education International For Private & Personal Use Only www.jainelibrary.org,

Loading...

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446