________________
२७२
काव्यमाला ।
. शुष्यत्येव च सरसाप्यवैति दुःखानि मुग्धहृदयापि ।
रक्तापि पाण्डुरैव हि जाता विरहे तव वराकी ॥३३॥ सरसापि त्वत्प्रेमणि साभिलाषापि परितापाच्छुष्यति । त्वत्प्रेम्णा व्यामूढहृदयापि विरहजानि दुःखानि अवैति जानाति । अनुरक्तापि विरहवेदनया पाण्डुरवर्णा जाता। सरसादिपदानां श्लेषेण आर्द्रताद्यपीत्यर्थः । ततश्च-आर्द्रस्य कथं शुष्कता, व्यामूढस्य (अचेतनस्य) कथं दुःखपरिज्ञानम् , अरुणवर्णस्य कथं पाण्डुतेति विरोधः । अनेन चालकारेण 'सुखसाधनमपि सर्व त्वद्विरहे तस्या दुःखसाधनं जातम्' इति वस्तु व्यज्यते । अनुभवतीति स्थाने जानातीत्युक्त्या-त्वयैव विरहं प्रदाय दुःखानां परिचयः कारितः, अन्यथा पूर्व कीदृशानि दुःखानीति परिज्ञानमपि नासीदिति पूर्वमनुभूतसु. खायाः साम्प्रतं नवदुःखानुभवेन वेदनातिशयो ध्वन्यते । वराकीपदेन च-'विपरीतकारिणा दैवेन एवं व्यापद्यमाना साऽवश्यं दयनीया' इति त्वरितोपसर्पणं चरमं ध्वन्यते।
सीधुसेवनेनोद्रिक्तमन्मथतया जरन्तमप्यालिङ्गन्ती काच्चन नवयौवनां शरद्वर्णनप्रसलेनोपहसन् सहृदयः कश्चित्सहचरमाह
आरुहइ जुण्ण खुजअं विजं उअह वल्लरी तउसी। णीलुप्पलपरिमलवासिअस्स सरअस्स सो दोसो ॥ ३४॥ [भारोहति जीणं कुब्जकमपि यत्पश्यत वेलनशीला पुसी ।
नीलोत्पलपरिमलवासितायाः शरदः स दोषः ॥] जीर्ण कुलकमप्यारोहति यत्पश्य वेल्लिनी पुसी।
शरदो दोषो नीलोत्पलपरिमलवासितायाः सः ॥३४॥ वेल्लतीति वेल्लिनी वेष्टनशीला त्रपुसी ( 'आर्या, तेवरसी' इति ख्याता, कर्कटीविशेषः) यत् शुष्कं वक्रं वृक्षमप्यारोहति, एष फुल्लनीलकमलसौरभायाः शरदो विकारः । प्राकृते 'सरअस्स' इत्यस्य 'शरदः' 'सरकस्य' इत्युभयमप्यर्थः । ततश्च-'सरकोऽस्त्री श्रीधुपाने शीधुपात्रेक्षुशीधुनोः' इति मेदिनीकोषात्-'वेल्लिनी वेष्टिताख्यालिङ्गनशीला त्रपुसीव कोमला नवयौवना वृद्धं नायकं बन्धविशेषवशाद् यदारोहति, सोयं नास्या दोषः, किन्तु कमलसौरभयुक्तस्य सरकस्य इक्षुमद्यस्य इत्यर्थान्तरमपि ध्वन्यते । तथाच-नवयौवनापि सेयं यज्जरन्तमिममालिङ्गति तत्र मधुपानमेव कारण मिति खस्य मर्माभिज्ञता सुहृदं प्रति प्रकटीकृता । गङ्गाधरस्तु-'कामपि गलितयौवनां शीधुपानेन जातमन्मथविकारां शरद्वर्णनच्छलेनोपहसन्नागरिकः सहचरमाह' इति प्रारम्भे अवतरणं विधायापि, मध्ये-'कर्कट्याः पुनर्नवीकरणं जरत्याश्च युवतीकरणं विकारः' इति वृद्धायाः कस्याश्चित्कामविकारकथां जगौ । अन्ते च 'शरत्काले कर्कटीलता यदेव पुरःस्थितं शुष्कमाई वा सरलं वक्र वा, तदेवारोहति, तथा लतेव लता नायिका वृद्धं वा तरुणं वा यद्भजते नायमस्या दोषः, किन्तु इथुमद्यस्येति' पुनर्युवत्याः वृद्धाश्रयणमालपित
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org,