________________
६ शतकम् ]
संस्कृतगाथासप्तशती।
२७१
तिर्यञ्चोपि कस्माचन पूर्व कष्टमनुभूय तत्सदृशमन्यमभीष्टमपि पदार्थमुपाददतो बिभ्यति । तद्विरम तदुपसरणादिति नायकं शिक्षयन्ती दूती सापदेशमाह
ओसरइ धुणइ साहं खोक्खामुहलो पुणो समुल्लिहइ । जम्बूफलं ण गेलइ भमरो त्ति कई पढमडको ॥३१॥ [अपसरति धुनोति शाखा खोक्खामुखरः पुनः समुल्लिखति।
जम्बूफलं न गृह्णाति भ्रमर इति कपिः प्रथमदष्टः ॥ ] अपसरति धुवति शाखा खोक्खामुखरः पुनः समुल्लिखति ।
जम्बूफलं न हरति भ्रमर इति कपिः प्रथमदष्टः ॥ ३१॥ धुवति कम्पयति । खोक्खा इति वानराणां शब्दस्तेन गुखरः, तां शाखा पुनः उल्लि. खति नखैर्विलुनाति । परं भ्रमरेण प्रथमं दष्टः कपिस्तत्सदृशं जम्बूफलं न हरति गृह्णाति । तिरश्चामपि सेयं सतर्कता, त्वं तु प्रथममनुभूतभूरि निग्रहोपि कथं पुनस्तामेव कामयसे इति नायकं प्रत्यभिव्यज्यते । 'खोक्खा ध्वनिविशेषः' इति गङ्गाधरः । पुनस्तमेवार्थ दृष्टान्तान्तरेणाह
ण छिवइ हत्थेण कई कण्डूइभएण पत्तलणिउर्छ । दरलॅम्बिअगोच्छकइकच्छुसच्छहं वाणरीहत्थम् ॥ ३२॥ [न स्पृशति हस्तेन कपिः कण्डूतिभयेन पत्रलनिकुञ्ज ।
ईपल्लम्बितगुच्छकपिकच्छुसदृशं वानरीहस्तम् ॥] न स्पृशति करेण कपिः कण्डूतिभयेन पत्रलनिकुञ्जे।
ईषल्लम्बितकपिकच्छुगुच्छसदृशं हि वानरीहस्तम् ॥ ३२॥ पत्रले बहुलपत्रे निकुञ्ज लतामध्यतः प्रसारितं प्रियमपि वानरीहस्तम् , ईषल्लम्बमानं कपिकच्छोः (कोंछ इति भाषया व्यपदेश्यस्य वनस्पतिविशेषस्य) गुच्छकमाशङ्ख्य कपिः कण्डूतिभयेन न स्पृशतीत्याशयः । प्राकृते पूर्वनिपातस्यानियमात् कपिकच्छु. गुच्छ सदृशमितिस्थाने 'गुच्छकपिकच्छुसदृशम्' इति जातम् । अथवा ईषल्लम्बितो गुच्छो यस्येति बहुव्रीहिर्वाच्यः स्यात् । अभिमतमपि मूढः प्रतिकूलबुध्या परिहरतीत्यन्यापदेशेन कोपि सहचरमाह' इति गङ्गाधरः। अभिसरणार्थ नायकमुत्तेजयन्ती दूती नायिकाया विरहविकलतामाह
सरसा वि सूसइ चिअ जाणइ दुक्खाइँ मुद्धहिअआ वि । रत्ता वि पण्डुर चिअ जाआ वरई तुह विओए ॥ ३३॥ [सरसापि शुष्यत्येव जानाति दुःखानि मुग्धहृदयापि। रक्तापि पाण्डुरैव जाता वराकी तव वियोगे ॥ ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org