________________
काव्यमाला ।
[स्थूलाश्रुभी रुदितं सपत्नीवर्गेण पुष्पवत्याः ।
भुजशिखरं पत्युः प्रेक्ष्य शिरोलग्नवर्णघृतलिप्तम् ॥1 रुदितं हि पुष्पवत्याः सपदि सपत्नीभिरविरलैरस्त्रैः।
भुजशिखरं किल पत्युः प्रेक्ष्य शिरोलग्नवर्णघृतलिप्तम् ॥२८॥ भुजस्य शिरसि उपरिभागे स्कन्ध इति यावत् । लग्नेन वर्णघृतेन लिप्तं पत्युभुजशिखरं प्रेक्ष्य पुष्पवत्याः सपत्नीभिः अविरलैरश्रुभिः रुदितम् । पुष्पवतीमपि तामसौ न त्यजतीति भावः । स्कन्धे घृतलेपेन तन्मुखमंसे निधाय रात्री सुष्वापेति नायिका. लम्बनः प्रणयातिशयो द्योत्यते । तद्वारा च सपत्नीनामीातिशयः 'अविरलैः' इत्यश्रुविशेषणेन सूच्यते । 'तुप्पं वर्णघृतं तेन लिप्तं तुप्पलिअम् । कस्याप्यभियोगनिरासार्थ दूती नायिकाया ऋतुकालेऽप्यनवसरमाह' इति गङ्गाधरटीका । अतिरागाविष्टः कोपि रजखलामाह
लोओ जूरइ जूरउ वअणिजं होइ होउ तं णाम । एहि णिमजसु पासे पुप्फवइ ण एइ मे णिद्दा ॥ २९ ॥
[लोकः खिद्यते खिद्यतु वचनीयं भवति भवतु तन्नाम । __ एहि निमज पार्श्वे पुष्पवति नैति मे निद्रा ॥] लोकस्ताम्यति ताम्यतु वचनीयं भवति भवतु तन्नाम ।
एहि विनिमज पार्श्व निद्रा मे नैति पुष्पवति ॥ २९ ॥ लोकः सपन्यादिः ताम्यति खिद्यते । वचनीयं निन्दा । नायिकाया एकैका विप्रतिपत्तिरनूद्य खण्ड्यते । पार्श्वे विनिमजेति स्फुटतया ग्राम्यायितोक्त्या नायकस्य कामाकुलत्वं व्यज्यते । प्रिये! इत्यादि परिवर्ते पुष्पवतीत्यामन्त्रणेन-वारंवार पुष्पवतीत्वं कारणीकुर्वाणा त्वमेवैका अपूर्वा पुष्पवती असीत्युपालम्भोऽभिव्यज्यते । पुरुषनिष्ठः सोयं हाव इति स० कण्ठाभरणम् । 'रागतः सहसा प्रवृत्तिहेतुश्चित्तोल्लासो हेला । हेलैव सवचनविन्यासो हावः' इति तल्लक्षणम् । पूर्वानुरागे लेखमुखेन नायिका नायकमाह--- .
जं जं पुलएमि दिसं पुरओ लिहिअ ब दीससे तत्तो। तुह पडिमापडिवाडि वहइ व सअलं दिसाअक्कम् ॥ ३० ॥
[यां यां प्रलोकयामि दिशं पुरतो लिखित एव दृश्यसे तत्र । __ तव प्रतिमापरिपाटी वहतीव सकलं दिशाचक्रम् ॥ ] यां यां पश्यामि दिशं तत्र लिखित इव विलोक्यसे पुरतः।
प्रतिमापरिपाटी तव सकलं वहतीव दिक्चक्रम् ॥ ३०॥ प्रतिमापरिपाटी प्रतिबिम्बपरम्पराम् । सर्वतस्त्वन्मूर्तिमेव विलोकयामीत्याशयः। 'लिखित एव' इति गङ्गाधरकृता छाया।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org