________________
२६९
६ शतकम् ] संस्कृतगाथासप्तशती।
धूलिमइलो वि पङ्कङ्किओ वि तणरइअदेहभरणो वि। तह वि गइन्दो गरुअत्तणेण ढकं समुबहइ ॥ २६ ॥ [धूलिमलिनोऽपि पङ्काङ्कितोऽपि तृणरचितदेहभरणोऽपि ।
तथापि गजेन्द्रो गुरुकत्वेन ढक्कां समुद्वहति ॥] धूलिमलिनोपि पङ्काङ्कितोपि तृणरचितदेहभरणोपि ।
तदपि गजेन्द्रो ढक्कां गुरुकतया ह्यात्मनो वहति ॥ २६ ॥ । तृणैः कृतं देहस्य भरणं पोषणं येन । भरणपदेन-उदरपूरणमात्रसूचनेन भोज्यप्रकारेष्वौदरिकवदभिनिवेशाभावो व्यज्यते । आत्मनो गुरुकतया शरीरस्य महापरिमाणेन ढक्का समरवाद्यं महाविशालं यशःपटहं वहति । गुरुकतया आत्मनो गौरवेण (उत्कर्षेण ) स्वस्य यशोडिण्डिमं घोषयतीत्यप्यर्थः । एवं च-निष्परिच्छदोपि सोयमास्मन उत्कर्षेण सर्वत्र यशोभाजनमस्ति, तन्माऽस्य समागमे विशङ्केथा इति नायिका प्रति द्योत्यते।
नैसर्गिकमहत्त्वशालिना संकटेपि मानसमुन्नतमेव भवतीति सखी शिक्षयन्ती काचित्सुभटपक्ष्याश्चौरेण सह संलापदृढतामाह
करमरि कीस ण गम्मइ को गवो जेण मसिणगमणासि । अदिदन्तहसिरीअ जम्पिअं चोर जाणिहिसि ॥ २७ ॥ [बन्दि किमिति न गम्यते को गर्वो येन मसृणगमनासि ।
अदृष्टदन्तहसनशीलया जल्पितं चोर ज्ञास्यसि ॥] नो बन्दि गम्यते किं को गर्वो येन मसृणगमनासि ।
जल्पितमदृष्टदशनं विहसन्त्या 'ज्ञास्यसे चोर' ॥ २७ ॥ 'हे बन्दि मम निर्देशानुसारं मया सह किमिति न गम्यते ? किंनिमित्तो गर्वो येन मसृणगमनासि भन्दगमनासि' इति चौरेणोक्ते सति, अदृष्टदन्तं यथा स्यात्तथा हसन्त्या मन्दस्मितं कुर्वत्येत्यर्थः । अदृष्टदन्तं हसनेन-कुलमर्यादा आत्माभिमानश्च सूच्यते । मन्दस्थाने मसूणपदेन चिक्कणस्थलवस्थित्वा स्थित्वा गमनं सूच्यते, तेन विश्वसनीयशौर्यस्य दयितस्यागमनप्रतीक्षा व्यज्यते । कथनस्थाने जल्पनोक्त्या-साभिमानोक्तिः सूचिता । चोरपदेन-'वीरस्य मम भर्तुरनुपस्थिती मां हरतस्तव नेयं सुभटता, अपि तु सेयं तस्करतैव' इति तं प्रति तिरस्कारो ध्वन्यते ।
प्रेमप्राबल्ये सति ऋतुकालेपि प्रियतमाया विरहो न शक्यते सोढुमिति सखीं प्रियतमप्रणयार्थमुत्तेजयन्ती काचित्कस्याश्चिद्वृत्तमाह
थोरंसुएहिँ रुण्णं सवत्तिवग्गेण पुप्फवइआए । भुअसिहरं पइणो पेछिऊण सिरलग्गतुप्पलिअम् ॥ २८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org