________________
२६८
काव्यमाला 1
मनुनेतुं जनो भवत्सकाशात् शिक्षते । तव मधुरसंलापो हृदयबाह्यो यतस्त्वं द्वेष्वेपि मधुरं लपसि । ततश्चालीकदाक्षिण्येन स्फुटापराधोपि त्वं केवलं मां प्रतारयसीति गूढो - पालम्भो ध्वन्यते ।
पूर्वं दर्शितप्रणयातिशयस्यापि साम्प्रतं मन्दस्नेहस्य दयितस्याकृतज्ञतां सूचयन्ती काचित्सखीमाह
लजा चत्ता सीलं अ खण्डिअं अजसघोसणा दिण्णा । जस्स करणं पिअसहि सो चेअ जणो जणो जाओ ॥ २४ ॥
[ लज्जा त्यक्ता शीलं च खण्डितमयशोघोषणा दत्ता ।
यस्य कृतेन ( कृते ननु ) प्रियसखि स एव जनो जनो जातः ॥ ] लज्जा त्यक्ता शीलं खण्डितमयशोविघोषणा दत्ता ।
यस्य कृतेन प्रियसखि स एव संप्रति जनो जनो जातः ॥ २४ ॥ यस्य प्रियस्य कृतेन यस्य प्रियस्यार्थे । अयशसो विघोषणा डिण्डिमरवः, डिण्डिम - ताडनपूर्वकं सर्वत्र मया अपकीर्तिः प्रसारितेति भावः । स एव जनः ( प्रियजनः ) जनः उदासीनजनो जातः ।
सख्याः शिक्षार्थं काचित्कुलवधूत्तमाह
हसिअं अदिट्ठदन्तं भमिअमणिकन्त देहलीदेसम् । दिट्ठमणुक्खित्तमुहं एसो मग्गो कुलवहूणम् ॥ २५ ॥ [ हसितमदृष्टदन्तं भ्रमितमनिष्क्रान्त देहली देशम् । दृष्टमनुत्क्षिप्तमुखमेष मार्गः कुलवधूनाम् ॥ ] हसितमदर्शितदशनं भ्रमितमनिष्क्रान्तदेहली देशम् । दृष्टमनुत्क्षिप्तमुखं मार्गः सोऽयं कुलवधूनाम् ॥ २५ ॥
न उत्क्षिप्तम् उन्नमितं मुखं यस्मिन् ईदृशं दृष्टम् अवलोकनम् । अदृष्टेति स्थाने अदशिवेत्युक्तया - हास्य विषयेपि हास्योद्रेकं वशीकुर्वत्यस्ते दन्तदर्शनचापलं न प्र सूच्यते-उक्तं चान्यैरपि - ' स्मितं कुलनतभ्रुवामवर एव विश्राम्यति' । न निष्क्रान्तः उल्लङ्घनविषयीभूतो देहलीदेशो यस्मिन्, देहलीतो बहिर्न भ्राम्यन्तीत्यर्थः । तत्त्वतस्तु-न निष्क्रान्तः स्वस्माद्वियुक्तो देहलीदेशो यस्मिन् अर्थात् गृहजना गृहदेहली तस्तिरस्कुर्युरीदृशं तासां भ्रमणं न भवतीति यावत् । मार्ग इत्यनेन - राजमार्गवदनुङ्कनीया निष्कण्टका तु सेयमेव रीतिः, अन्याः कामं पांसुला विशिखाः शतं भवेयुरिति ध्वन्यते । वधूपदेन - पितृगृहे एतदपेक्षया किञ्चित्खातन्त्र्यमभिव्यज्यते ।
निष्परिच्छदतया कैश्चिदनादृतस्य नायकस्य गौरवं सूचयन्ती दूती शृण्वन्तीं नायिकामनुकूलयितुमन्यापदेशेनाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org