________________
६ शतकम् ] संस्कृतगाथासप्तशती।
[सत्यं कलहे कलहे सुरतारम्भाः पुनर्नवा भवन्ति ।
मानः पुनर्मनस्विनि गुरुकः प्रेम विनाशयति ॥] सत्यं कलहे कलहे सुरतारम्भाः पुनर्नवा भान्ति ।
मानः पुनर्मनस्विनि गुरुकः प्रेमेह नाशयति ॥२१॥ कलहकृतविच्छेदोत्तरं सुरते नवीनतेवाविर्भवतीति तत्र रसविशेषोऽनुभूयते । तथापि गुरुकः अतिपहिलो मानः इह प्रेमैव नाशयति । प्रेम्णि च गते को रसः सुरतेष्विति सम्प्रति मुञ्च मानमित्याशयः । मनखिनीत्यामन्त्रणेन त्वमेवैका अपूर्वा मनखिन्युत्पनासि, या सुभृशमनुनयेपि न मानं मुञ्चसीति' भूयानुपालम्भो ध्वन्यते ।
अनुनयाऽस्वीकारात्कुपितविलक्षेण वल्लमेनावधीरिता कलहान्तरिता जनितानुतापं दूतीमाह
माणुम्मत्ताइ मए अकारणं कारणं कुणन्तीए । अइंसणेण पेम्मं विणासि पोढवाएण ॥ २२ ॥ [मानोन्मत्तया मया अकारणं कारणं कुर्वत्या ।
अदर्शनेन प्रेम विनाशितं प्रौढवादेन ॥] मानोन्मदयाऽति मया ह्यकारणं कारणं प्रकुर्वत्या।
प्रेमाप्यदर्शनेन विनाशितं प्रौढवादेन ॥ २२॥ मानधारणार्थम् अति उन्मदया अत्युत्साहया, अत एव मानस्य न यत्कारणं तदपि कारणं कुर्वत्या मया अनुनयन्तं दयितं प्रत्यनवलोकनेन, प्रौढवादेन प्रतिज्ञापूर्वकं प्रत्याख्यानेन च प्रेमापि विनाशितम् । 'मानावलम्बनेन प्रियप्रणयं परीक्षिष्ये' इति धृतोत्साहया मया मानकारणं विनैव तावान्मानः कृतो यत्प्रियोऽनुनयन्नपि नावलोकितः । इदानी पराङ्मुखः प्रियो मां नावलोकयति, ततश्च सम्प्रति प्रियस्य दर्शनं विना स्नेह एवापगत इत्याशयः। कृतापराधत्वेपि चाटूक्तिभिरनुनयन्तं कान्तं कापि सर्वदग्ध्योपालम्भमाह
अणुऊलं विअ वोत्तुं बहुवल्लह वल्लहे वि वेसे वि । कुविअं अ पसाएउं सिक्खइ लोओ तुमाहित्तो ॥ २३ ॥ [अनुकूलमेव वक्तुं बहुवल्लभ वल्लभेऽपि द्वेष्येऽपि ।
कुपितं च प्रसादयितुं शिक्षते लोको युष्मत्तः ॥] द्वेष्यपि वल्लभेपि च बहुवल्लभ वक्तुमेव मधुराणि ।
कुपितं चाप्यनुनेतुं युष्मत्तः शिक्षते लोकः ॥ २३ ॥ बयो वल्लभा यस्य तत्सम्बुद्धौ । बहुषु कृतप्रणयोपि त्वं केवलं दाक्षिण्येनानुनेतुमिच्छसीत्येतदाकूतम् । द्वेष्येपि वल्लमेपि च जने मधुराण्येव वक्तुं तद्वारा च कुपितं लोक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org