SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ काव्यमाला । दानी किं रोषेण ?' सत्ये प्रेमण्येव मानः शोभत इत्याशयः । 'अलीकदाक्षिण्येन त्वं प्रेम साधयितुमीहसे, अहो ते नैपुण्यम्' इति विलक्षहसितस्याकूतम् । अन्यासक्त्या दयितस्य मन्दस्नेहतां सूचयन्ती काचित्सखी सनिर्वेदमाह वण्णअघअलिप्पमुहिं जो मं अइआअरेण चुम्बन्तो। एहिं सो भूसणभूसि पि अलसाअइ छिवन्तो ॥ १९ ॥ [वर्ण[कघृतलिप्तमुखी यो मामत्यादरेण चुम्बन् । इदानीं स भूषणभूषितामप्यलसायते स्पृशन् ॥] वर्णघृतलिप्तवदनां यो मामत्यादरेण चुम्बितवान् । भूषणविभूषितामपि सम्प्रत्यलसायते स्पृशन्नपि सः ॥ १९ ॥ पुष्पवतीत्वावस्थायां नियमानुरोधेन स्पर्शार्थ निषिध्यन्तीमपि, वर्णघृतेन लिप्तवदनतया अमनोहरामपि, मां पूर्वमत्यासक्या चुम्बितवानपि सोऽयम्-सम्प्रति मण्डनेन स्पष्टमभिव्यक्ताभिलाषामपि रुचिरशरीरामपि मा स्पृशन्नपि संकुचति, का पुनः समागमस्य कथा । तथा च-स्पष्टमस्याऽन्यस्यामासक्तिः संजातेत्याशयः । अस्याः सहजसौन्दर्य वीक्षख न पुनर्वस्त्रादिकमिति काञ्चन संयोजयितुमिच्छन्ती दूती कामुकमाह णीलपडपाउअङ्गी त्ति मा हुणं परिहरिजासु । पढेंसुअं पि णद्धं रअम्मि अवणिजइ चेअ ॥२०॥ [नीलपटप्रावृताङ्गीति मा खल्वेनां परिहर । पट्टांशुकमपि नद्धं, रतेऽपनीयत एव ॥] नीलपटसंवृताङ्गीति मा किलैनां परिहरस्व । पट्टांशुकमपि नद्धं व्यपनीयत एव सुखसुरते ॥ २०॥ नद्धं परिहितम् । सुखे सुखजनके सुरते । यदा पट्टवस्त्रमपि दूरीक्रियते तदा अस्य दूरीकरणे का बाधेति भावः । सहजो गुण एव स्त्रीणामुपादेयो न त्वाहार्य इत्याशयः । संवृताङ्गीत्यनेन-निसर्गसुन्दराणामस्या अङ्गानां नीलपटस्यावरणमात्रेण प्रतारितो मास्याः समागमसुखतो वञ्चितो भूरिति सूच्यते । सुखेति विशेषणेन-यदि त्वं वास्तवे सुरतसौख्यं वाञ्छसि तर्हि तु पटं प्रति दृष्टिं न करिष्यस्येव । अथ यदि केवलं रसिकमानितैव तदा तु सुखाद्वचित एव त्वमिति व्यज्यते । अतिग्रहिलमानां मानिनी मानपरित्यागार्थ शिक्षयन्ती दूती सानुनयमाह सच्चं कलहे कलहे सुरआरम्भा पुणो णवा होन्ति । माणो उण माणंसिणि गरुओ पेम्मं विणासेइ ॥ २१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001858
Book TitleGathasaptashati
Original Sutra AuthorN/A
AuthorNathuram Shastri
PublisherPandurang Javji
Publication Year1993
Total Pages446
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Literature, & Kavya
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy