Book Title: Gathasaptashati
Author(s): Nathuram Shastri
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 343
________________ २५८. , काव्यमाला। पूर्णोन्मीलिताभ्यां न दृष्ट इति तत्तात्पर्यम् । 'समं सदृशि सर्वस्मिन्' इति कोषः । न दृष्टोपीत्यपिना लोकदौरात्म्याद्दर्शनमात्रेणाप्यहं वञ्चिता, कुतः किल समागमस्य सौभाग्यमिति लालसा व्यज्यते । 'सूचीवेध' इति लोकोक्त्यलङ्कारः । अनेन च-मुधैव मां कलङ्कयन् लोकः प्रियसमागमे बाधकः । तद्विरहविकलाया मम तु महदधैर्यमित्युत्कण्ठाविशयो ध्वन्यते। प्रियतमे प्रोषिते मे प्राणानामपि संशय एवेति सूचयन्ती काचिद्रोदनान्निवारयन्ती निजसखीमाह अजं पि ताव एकं मा में वारेहि पिअसहि रुअन्तिम् । कल्लिं उण तम्मि गए जइ ण मुआ ता ण रोदिस्सम् ॥२॥ [अद्यापि तावदेकं मा मां वारय प्रियसखि रुदतीम् । ___ कल्ये पुनस्तस्मिन्गते यदि न मृता तदा न रोदिष्यामि ॥] अद्यैव तावदेकं मा मां प्रियसखि निवारये रुदतीम् । . कल्ये गते तु तस्मिन्न हि रोदिष्यामि यदि न मृता ॥२॥ मूले अपिरवधारणे । अद्यैव, एक दिनं यावत् , रुदतीं मां मा निवारयेः । यदि न मृता तदा न रोदिष्यामीत्यनेन तद्गमने मम मरणमवश्यंभावि, ततश्च रुदत्या मे निवारणस्यावश्यकतैव न भविष्यतीति भावः । 'यदि न मरिष्यामि तदा न रोदिष्यामि' इति 'मृ'धातोभविष्यत्प्रत्ययस्थलेपि 'मृता' इति भूतकालिकप्रयोगेण-'रोदनात्पूर्व मे मरणं भूतकालिकं भविष्यति अर्थात् रोदनं पश्चाद्भविष्यति अहं तु ततः पूर्वमेव म्रियेय' इति व्यज्यते । एवं च-यदि मे जीवितं कामनीयं तर्हि प्रियः प्रवासोद्यमान्निवारणीय इति सखीं प्रत्यभिव्यज्यते। भोजेन तु सरस्वतीकण्ठाभरणे 'जइ ण मरिस्सं ण रोदिस्सम्' 'यदि न मरिष्यामि न रोदिष्यामि' इति पाठः स्वीकृतः । चतुरमहिला दाक्षिण्येनैव गोपनीयमपि वृत्तं सूचयन्तीति निजसखी शिक्षयन्ती काचिदाह एहि त्ति वाहरन्तम्मि पिअअमे उअह ओणअमुहीए । विउणावेडिअजहणस्थलाइ लजाणअं हसिअम् ॥३॥ [एहीति व्याहरति प्रियतमे पश्यतावनतमुख्या। द्विगुणावेष्टितजघनस्थलया लज्जावनतं हसितम् ॥] एहीति व्याहरति प्रेयसि बत पश्यतावनतमुख्या। द्विगुणावेष्टितजघनस्थलया लज्जानतं हसितम्॥३॥ द्विगुणम् आह्वानसमये शाटकाञ्चलेन पुनरपि आवेष्टितं जघनस्थलं यया । लज्जया आनतं यथा स्यात्तथा, ईषदित्यर्थः । अन्यसमये यथा हास्यं भवति तदपेक्षयापि, ससं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446