________________
२३२
काव्यमाला।
पाठः । तथा च-गोष्ठ एवैतावत्कालं भ्रान्तवान् , महिलानां गुणदोषविचारक्षमोद्यापि त्वं न भवसीति पूर्वोक्तोऽर्थः स्फुटीभवति । 'श्रीकृष्णं सौभाग्यगर्विता बल्लवी काचिदाह' इति गङ्गाधरः।
अनुनयपराङ्मुखं कान्तं शम्भोः प्रणामापदेशेन सामयिककर्तव्यं बोधयन्ती मानिन्याः सखी आह
संझासमए जलपूरिअञ्जलिं विहडिएकवामअरम् । गोरीअ कोसपाणुजअं व पमहादिवं णमह ॥४८॥ [संध्यासमये जलपूरिताञ्जलिं विघटितैकवामकरम् ।
गौर्यै कोषपानोद्यतमिव प्रमथाधिपं नमत ॥] सन्ध्यासमये जलपूरिताञ्जलिं विघटितैकवामकरम् ।
गौर्यै हि कोषपानोद्यतमिव नमत प्रमथनाथम् ॥४८॥ सन्ध्यानुष्ठानसमये । जलेन पूरितोञ्जलिर्यस्य तम् किन्तु विघटितैकवामकरम् , विधहितः पृथग्भूतः एको वामः करो यस्य । अर्धनारीश्वरत्वेन वामभागस्थितगौरीकस्यापि सन्ध्यासमये गौरीसम्बन्धी वामः करः पृथग्भूत इत्यर्थः । एकस्मिन् हस्ते आचमनार्थ गृहीतसलिलमिति यावत् । गौर्यै गौर्याः कृते कोषपानरूपं दिव्यं कर्तुमुद्यतमिव प्रमथनाथं शिवं नमत । अन्यस्यां मेऽनुरागो नास्तीति गौर्याः प्रत्ययार्थ सन्ध्याचमनव्याजेन दिव्यमेव करोतीत्यर्थः । तथाच-प्रणयिन्याः प्रसादनार्थं दिव्यमपि कर्तव्यं भवति, ततश्च त्वयापि सेयं शपथप्रणामादिभिरनुनेतव्या, नात्र विप्रतिपत्तव्यमिति नायकं प्रति ध्वन्यते । प्रमथनाथमित्यनेन-सर्वेषां प्रमथानामधिपोपि शम्भुस्तेषामभिमुखं दिव्यकरणे न संकुचति, भवांस्तु प्रणयिन्याः संमुखमनुनयेनैव लज्जत इत्याक्षेप. गर्भ नायकप्रोत्साहनमभिव्यज्यते । कोषदिव्यं तु याज्ञवल्क्यस्मृतौ-देवानुग्रान्समभ्यर्थ्य तत्स्नानोदकमाहरेत् । संसाव्य पाययेत्तस्माजलं तु प्रसृतित्रयम् ॥' नारदस्तु 'पूर्वाह्ने सोपवासस्य स्नातस्यार्द्रपटस्य च । सशूकस्याव्यसनिनः कोषपानं विधीयते ॥'
सौभाग्यशालिनी प्रति दयितस्य प्रणयोऽवसानसमयेपि न मन्दीभवतीति सखी नायिका निदर्शयन्त्याह-~
गामणिणो सवासु वि पिआसु अणुमरणगहिअवेसासु । मम्मच्छेएसु वि वल्लहाइ उवरी वलइ दिट्ठी ॥ ४९ ॥ [ग्रामण्याः सर्वास्वपि प्रियास्वनुमरणगृहीतवेषासु ।
मर्मच्छेदेष्वपि वल्लभाया उपरि वलते दृष्टिः ॥] ग्रामण्यः सकलास्वपि दयितास्वनुमृतिगृहीतवेषासु । दृष्टिवलते मर्मच्छेदेष्वपि वल्लभाभिमुखम् ॥ ४९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org