SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ ५ शतकम् ] संस्कृतगाथासप्तशती । २३१ आत्मनो रसिकतां सूचयितुं नागरिकः सहचरं प्रति कस्याश्चन पुरुषायितं वर्णयतिरेहइ गलन्त के सक्खलन्तकुण्डलललन्तहारलआ । अद्धुप्पइआ विजाहरि व पुरुसाहरी बाला ॥ ४६ ॥ [ राजते गलत्केशस्खलत्कुण्डलललद्वारलता । अर्धोत्पतिता विद्याधरीव पुरुषायिता बाला ॥ ] राजति विगलत्कुन्तलविचलत्कुण्डलविलोलहारलता । अद्धौत्पतिता विद्याधरीव पुरुषायिता बाला ॥ ४६ ॥ विगलन्तः शिथिलबन्धत्वेन विस्रंसमानाः कुन्तला यस्याः, विचलती सुरतसंरम्भेण कम्पमाने कुण्डले यस्याः सा । बहुव्रीहिगर्भः कर्मधारयः । पुरुषायिता बाला अर्द्धात्पतिता किञ्चिदुड्डीना विद्याधरीव राजते । भुवं विहाय किञ्चिदेवोत्पतने उत्पतनप्रथमसंरम्मेण केशादीनां विगलनं यथा भवति तथा विपरीतरतं कुर्वन्त्या बालाया अपि भवतीति भावः । अमराप्सरः प्रभृतिमन्यां खेगामिनीं देवजातिमनुक्त्वा विद्याधरीपदेनसेयं सुरतचातुरी न यया कयाचिल्लभ्या किन्तु या इमां विद्यां जानाति तयैव सम्यक् संपाद्येति तदभिज्ञायाः कामनीयत्वातिशयो ध्वन्यते । 'उद्धुप्पइआ' इति पाठे ऊर्ध्वोत्पतितेत्यर्थो बोध्यः । ‘विपरीतरते मुग्धवधूप्ररोचनार्थं नागरिकः कस्याश्चित्पुरुषायितं वर्णयति' इति गङ्गाधरः । मत्कृतच्छायायां विगलदित्यादि 'वि-ल' वर्णयोः प्रासः प्रेक्ष्यः । मूलानुरोधेन त्रिष्वपि शत्रन्तानुप्रासलिप्सायां तु " ललत्सुहारलता' इति पाठो बोध्यः । निजसौभाग्यगर्वेण सदर्प संचरन्तं कञ्चन युवानं गुणगर्विता कापि कृष्णान्योक्तिविधया सवैदग्ध्यमाह - जइ भमसि भमसु एमेअ कह सोहग्गगविरो गोट्ठे । महिलाणं दोसगुणे विचारअइउं जइ खमो सि ॥ ४७ ॥ [ यदि भ्रमसि भ्रम एवमेव कृष्ण सौभाग्यगर्वितो गोष्ठे । महिलानां दोषगुणौ विचारयितुं यदि क्षमोऽसि ॥ ] भ्रमसि यदि भ्रम कृष्णैवमेव सौभाग्यगर्वितो गोष्ठे । दोषगुणौ महिलानां क्षमोसि यदि वै विचारयितुम् ॥ ४७ ॥ हे कृष्ण ! यदि सौभाग्यगर्वितो भ्रमसि तर्हि एवमेव सुखं भ्रम, चेन्महिलानां गुणदोषौ विचारयितुं समर्थोसि । उत्तमस्त्रीणां गुणदोषाभिज्ञस्यैव सौभाग्यगर्वः समुचित इत्याशयः । तथा च- मादृश्या यदि गुणान्परीक्षितुं क्षमो भविष्यसि तदैव ते सौभाग्यं परिज्ञास्यते, दुर्लभा किल मादृशी गुणशालिनीति शृण्वन्तं कान्तं प्रत्यभिव्यज्यते । 'गोष्ठे' इत्यनेन गवां स्थाने यथा कृष्णो भ्राम्यति एवं भवानपि यत्र कुत्रचित्सुलभासु साधारणयोषाखेतावन्तं कालं संचरितवान् नाद्यावधि विदग्धवनितासमागमो लब्ध इति गूढमाक्षेपो ध्वन्यते । बहुषु पुस्तकेषु 'महिलाणं दोषगुणविचारखमो अज्जवि ण होसि' इति 2 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001858
Book TitleGathasaptashati
Original Sutra AuthorN/A
AuthorNathuram Shastri
PublisherPandurang Javji
Publication Year1993
Total Pages446
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Literature, & Kavya
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy