________________
२३०
काव्यमाला |
भूयस्तरामनुरागं प्रदर्श्य पश्चान्मन्दस्नेहतामुपगतं नायकमनुकूलयितुं सवैदग्ध्यमुपालभमाना काचिदाह -
अकअण्णुअ तुज्झ कए पाउसराईसु जं मए खुण्णम् । उप्पेक्खामि अलजिर अञ्ज वि तं गामचिक्खिल्लम् ॥ ४५ ॥
[ अकृतज्ञ तव कृते प्रावृड्रात्रिषु यो मया क्षुण्णः । उत्पश्याम्यलज्जाशील अद्यापि तं ग्रामपङ्कम् ॥ ]
अकृतज्ञ तव कृते यः प्रावृड्ररजनीषु बहु मया क्षुण्णः । अयि निरपत्रप पश्याम्यद्यापि ग्रामपङ्कं तम् ॥ ४५ ॥
तव कृते घनान्धकारासु वर्षारात्रिषु यो बहुतरं गाहितः, अयि निरपत्रप अलज्जाशील ! तंग्रामकर्दममद्यापि पश्यामि । नाधुना भूयान् समयो व्यतीतो यत्र मया त्वदर्थं भूयांसः क्लेशा अनुभूताः, त्वं तु तत्सर्वं विस्मृतवानसीत्यहो ते अकृतज्ञतेति भावः । अद्यापि ग्रामपङ्कमित्यनेन - नाधुना स पङ्कोपि शुष्को यो मदनुभूत क्लेशसहनस्य साक्षीति खल्पकाल एव तव स्नेहो मन्दीबभूवेति नायकं प्रत्युपालम्भोभिव्यज्यते । 'प्रावृइरात्रिषु' इत्यनेन - जलधरान्धकारितदिगन्तरासु प्रावृड्रजनीषु रसपरवशस्त्वं मय्यनुरक्तोऽभूः परं प्रावृड्जनितपङ्को यावन्न शुष्यति तावदेवान्यासकोप्यभूरित्यहो तेऽस्थिरस्नेहस्य स्वार्थपरायणतेवि 'निर्लज्ज' पदसहकारेण ध्वन्यते । मच्छायानिविष्टेन 'बहु' पदेन मासद्वय एव मया त्वदर्थं प्रावृड्ररात्रिष्वपि कतिवारमभिसारः स्वीकृतः, त्वं तु एतावत्स्वल्प एव समये मामन्यासक्कतया विस्मरसीत्याक्षेपातिशयो व्यज्यते । क्षुण्ण इत्यनेन त्वदासक्तचेतनाया मम मार्गगमनेपि नासीदवधानं येन पङ्किलं मार्ग सावहितमुलङ्घयेयम्, अत एवाहं कर्दमं गाहमानैवाचलमिति आवेगातिशयः सूच्यते । उत्पश्यामीति मूलपाठानुरोधेन - 'निही कोत्पश्याम्यहमद्यापि ग्रामपङ्कं तम्' इति पाठः । अत्र उत्पश्यामीत्यस्य उत्प्रेक्षे, स्मरामीति वाऽर्थः । अहं त्वदर्थं सोढानि पूर्वकष्टान्यद्यापि भावयामि परं त्वं तथाप्युदासीनो भवसीति नायकं प्रति पूर्वप्रणयं संस्मार्य आनुकूल्यसंपादनप्रयत्नः प्रदर्श्यते ।
मेव न दूषकम् । अत्र हि प्राचां टीकाकाराणामवतरणस्य गाथाव्यङ्ग्यभङ्ग्या श्चानुसारेण “ नायकं प्रति सानुरागा काचिदनवाप्तयौवनया नायिकया सह रममाणं तमभिवीक्ष्य मधुकरव्यपदेशेन सस्नेहपरिहासमाह" इति प्रसङ्गः स्थाप्यते । एवं स्थितौ - अविकसितमन्मथकोषा सेयं भवता विकासात्पूर्वमेव आमद्येते, अहो ते रसपानलम्पटता ! रसस्तावद्विकासात्पूर्वमलभ्य एव । तथा च अस्मद्विधं युवतिजनं विहाय अस्थाने क्लिश्यसीति सानुरागमावेद्य नायको निवर्त्यतेऽस्मात्कर्मणः । ततश्च हितमुपदिशन्वक्ता 'त्वं चेद्वारितोप्यस्मिन्कर्मणि प्रवर्तसे तर्हि न त्वयि मे संमतिः' इति विरोधं व्यञ्जयन्स्वस्य ताटस्थ्यमेव सूचयेत् । अत एव च वैमत्यभयात्कर्ता तस्मात्कर्मतो निवर्तते । तथा च तदिदं ताटस्थ्यं प्रतिकूलमनुकूलं वेति मामिकैरन्तः प्रविश्य परीक्षणीयमित्यलं पल्लवितेन ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org