________________
५ शतकम् ] संस्कृतगाथासप्तशती।
२२९ ( रतिरसलम्पटतानिसर्गात् ) त्वमेनामेतस्मिन्नेवान्तराले यन्मर्दयसि तत्ते रतिसुखलम्पटतया तावत्कालप्रतीक्षणासहत्वं सूचयति । अत एव त्वं मकरन्दलोलुपोसि ! परं त्वया मनस्यभिलष्यमाणं सुखं विकासोत्तरमेव लभ्यमिति नायकं प्रति सवैदग्ध्यं सस्नेहं सपरिहासं च सूच्यते । तथा चैवंविधामप्राप्तयौवनां कंचित्कालं परिहाय अस्मद्विधासु विदग्धवनितासु प्रवर्तितव्यं येनाभिलष्यमाणसुखसमवाप्तिर्भवेदिति नायकं प्रति गूढं ध्वन्यते । किम् इति विशेषपदमनङ्गीकृत्य अविकलं मूलानुसरणे तु "मधुप त्वं तावदेव मर्दयसि" इति पाठो बोध्यः। एवं पाठे तु-यावदियमुन्मीलितमनोभवविलासा न भवति तावदीषन्मर्दनीयैव, चेद्रतिरसलालसोसि । एवमुपचारेणैव किशोरीणामन्तःकोषविकासो भवति, ताश्चानुरज्यन्तीति निर्भयमिममपूर्वरसमुपभुञ्जीथा इति नायकं प्रति सख्या वचनं बोद्धव्यम् । अस्मिन्पाठे-मालतीकलिकावन्मुग्धा दयनीया च सेयं नायिका यावद्वराङ्गकुड्मलविकासं नाप्नोति हो मकरन्दपानलम्पट भ्रमर! तावदेव एतावदन्तराल एव मर्दयसि बलादामर्दनेन निर्दलयसि ! ( काकुः )। रतिरसलम्पटस्त्वं तावत्कालं प्रतीक्षणासहिष्णुरस्यामसमये प्रवर्तसे, एषा ते दुर्विदग्धतैवेति कस्याश्चन विदग्धप्रणयिन्या उक्तिरपि संभवतीति बोध्यम् । किमितिपदेन सोयमों यथावदात्मलाभ लभत इत्येव मद्थितमूले समगृह्यते ।
१ अस्या गाथायाः 'नहि पराग नहि मधुर रस नहि विकास इहिँ काल । अली कलीही साँ बँध्यो आगे कौन हवाल ।।' इति हिन्दीमहाकविविहारिपद्येन सह तुलनां तन्वानाः केचन .अस्यां गाथायां वक्तुस्ताटस्थ्यरूपां भावरूक्षतामाक्षिपन्ति । साधयन्ति च यद्विहारिपद्ये विषयासक्तं सुहृदं प्रति भाविनोनर्थस्य चिन्तया व्याकुलता, एकान्तहितैषिता, परिणामदशिंता, चेति सुहृज्जनोचिता भावा वक्तुः प्रकटं खेलन्ति, गाथायां तु न तथा । प्रत्युत ताटस्थ्येन स्नेहशून्यतेव प्रतीयत इति । अत्र तावद्विचारणीयं यत्तदिदं ताटस्थ्यं प्रतीयते न वा । प्रतीयमानमपि तद गाथाया उद्देश्यस्य प्रतिकूलमनुकूलं वा? यावत्किल विकासोन्मुखाया अस्या मालतीकलिकाया अन्तःपरागकोषस्य विकासो न भवति तावदेव त्वमेनां रसलोलुपतया किमिति मर्दयसीति सुम. धुरमाक्षेपोक्तौ कथं वा ताटस्थ्यं प्रतिभातीति वयं नाजानीम । स्पष्टं किल गाथायां निवेदितप्रायं यद्रसलोलुपस्त्वं कोषविकासात्प्रागेवास्यां प्रवृत्तोसि परं नास्याः सकाशाद्रसप्राप्तेराशा । प्रत्युत असमये मर्दनवशादग्रेपि रसप्राप्तेर्मार्गो रुध्यत इति मालतीकलिकायाः कोमलत्वमवेक्ष्य तत्कदर्थनेन व्यथितमानसतया हितचिन्तकताभावात्तत्पक्षमवलम्ब्य सावेगं तत्कर्मतो वर्जनरभसः प्रकटितोस्ति । एतदपि किं ताटस्थ्यम् ? 'नहि पराग नहि मधुर' पद्ये एकान्तहितैषितादयो भावाः कदाचन केवलं “आगे कौन हवाल" अस्मादेव प्रतीयेरन् । एवमत्रापि 'मकरन्दपानलोलुप तावदेव किं मर्दयसि' इति पदैः 'रतिरसलम्पटतया रसविकासात्प्रागेव किमेनां कदर्थयसि' इति सहानुभूतिप्रदर्शनपरेस्मिन् वाक्ये हितचिन्तकताभावः कथं नाभ्युदेति ? मकरन्दपानलोलुपेत्यामत्रणेन अविकसितकलिकाया विकासपर्यन्तं प्रतीक्षणीयतामालक्ष्यापि मकरन्दपानलोभान्धतया तदप्रतीक्षणात्सुमधुर उपालम्भोप्युपस्थाप्यते । न हि परागेति' पद्ये 'संप्रति परागादेरभावेपि कलिकायामेवानुरक्तो मधुप' इति दशामात्रमावेथ वक्ता दूरमवतिष्ठते । गाथायां तु अविकासदशामा वेद्य मकरन्दरसान्धतया माऽसौ प्रवर्ततामिति भयात् हितचिन्तकताबुद्ध्या 'किं कदर्थयसीति' सदै. न्यखेदप्रदर्शनं तन्निवारणमप्युपदिश्यते । ततः कथंकारं स्नेहशून्यतेहाक्षिप्यते? अस्तु. तुष्यतु दुर्जनन्यायेन यदि ताटस्थ्यमेवात्र स्वीकुर्मस्तथापि तद् गाथाया उद्देश्यस्य पोषक
सं. गा. २०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org