________________
२२८
काव्यमाला।
प्रवासार्थ कृतोद्यम कान्तं प्रति वसन्ते संभवन्तीं पान्थानां दशां दर्शयन्ती नायिका आह
कुरुणाहो विअ पहिओ दूमिजइ माहवस्स मिलिएण । भीमेण जहिछिआए दाहिणवाएण छिप्पन्तो ॥४३॥ [कुरुनाथ इव पथिको दूयते माधवस्य मिलितेन ।
भीमेन यथेच्छया दक्षिणवातेन स्पृश्यमानः ॥ ] कुरुनाथ इव हि पथिको व्यथते किल माधवस्य मिलितेन ।
स्पृष्टो यदृच्छयायं दक्षिणवातेन भीमेन ॥४३॥ अयं पथिको माधवस्य वसन्तस्य वैशाखस्य वा मिलितेन संगतेन । भीमेन भयानकेन विरहिजनवेदनादायकत्वात् । दक्षिणवातेन दक्षिणपवनेन यदृच्छया स्पृष्टः कुरुनाथ इव व्यथते दूयते । कुरुनाथो दुर्योधनोपि माधवस्य भगवतः कृष्णस्य मिलितेन संगतेन भीमेन भीमसेनेन स्पृष्टो व्यथते । प्राकृते 'दाहिणवाएण' इत्यस्य दक्षिणपादेनेति छायया दक्षिणचरणेन स्पृष्टो दूयत इत्यर्थः । एवं च माधवकृतसाहाय्येन भीमसेनेन दक्षिणचरणद्वारा स्पृष्टो दुर्योधनो व्यथत इति पूर्णोर्थः। तथाच-विरहिजनदुरन्तेऽस्मिन्वसन्ते मलयमारुतस्पर्शकरम्बितगात्राणां पान्थानां कीदृशी व्यथेति विचारयता भवता प्रवासः प्रत्याख्येय इति नायिकया प्रियं प्रति सूच्यते। 'चिरविरहिणीं युवती सखी समाश्वासयितुमाह' इत्यवतरणम् , 'वसन्तभयादचिरादेवागमिष्यति ते प्रिय इति तद्भावं चाह गङ्गाधरः।
अनवाप्तयौवनया जायया सह रममाणं नायकं प्रणयिनी काचिद्विदग्धा सस्नेहपरिहास मधुकरव्यपदेशेनाह
जाव ण कोसविकासं पावइ ईसीस मालईकलिआ । मअरन्दपाणलोहिल्ल भमर तावचिअ मलेसि ॥४४॥ [यावन्न कोषविकासं प्राप्नोतीषन्मालतीकलिका ।
मकरन्दपानलोभयुक्त भ्रमर तावदेव मर्दयसि ॥] ईषत्कोषविकासं यावन्नाप्नोति मालतीकलिका।
मकरन्दपानलोलुप मधुकर किं तावदेव मर्दयसि ॥४४॥ मालतीकलिका कोषस्य कुङ्मलस्य विकासमुन्मीलनम् । यावत् ईषत् किञ्चिन्नाप्नोति, मकरन्दस्य पुष्परसस्य पाने लोलुप लोभिष्ठ । मधुकर तावदेव एतस्मिन्नन्तराल एव किं मर्दयसि किमिति दलयसि । अन्तःकोषस्य विकासे सत्येव कुसुमे रसोद्भवः स्यात् , एवं सत्यपि रसपानेऽत्यन्तलालसत्वात्तावदेव तां मर्दयसीत्यनुचितम् । तथा च यदि रसग्रणे लालसा तर्हि तावत्प्रतीक्षणीयमिति भावः । एवमर्थप्रतीत्यनन्तरं शब्दशतिवशात्-'अकुसुमिततया कलिकोपमा इयं नायिका यावत्कोषविकासं वराङ्गकुड्मलविकासं नाप्नोति, रतिसुखलम्पटतया तावदेव किमेनां मर्दयसि' इत्यपरार्थो ध्वन्यते । यावत्किल कोषविकासो न भवेन्न तावल्लभ्येत रतिसुखम् । तथापि मधुकरवभावात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org