________________
५ शतकम् ]
संस्कृतगाथासप्तशती ।
२२७
ध्वन्यते । तथाच - कामशरजर्जरितहृदयाया मे असह्यवेदनया गमनोन्मुखाः प्राणाः, तत्त्वरितं कान्तसमागमोपायश्चिन्त्यतामिति सखीजनं प्रति ध्वन्यते ।
अतिबालायां रतोन्मुखं कंचिदिङ्गितेनावबुध्य, कंचित्कालं यावद् रतसंरम्भं स्थगयितुम्, अत्युत्कण्ठायामुत्फुलकरणविशेषेण सावधानं रन्तुं वा, काचिद्विदग्धवनिता मधुकर व्यपदेशेन शिक्षयति
णिअवक्खारोविअ देहभारणिउणं रसं लिहन्तेण । विअसाविऊण पिजड़ मालइकलिआ महुअरेण ॥ ४२ ॥
[ निजपक्षारोपित देहभारनिपुणं रसं लभमानेन । विकास्य पीयते मालतीकलिका मधुकरेण ॥ ] निजपक्षारोपिततनुभरमतिनिपुणं रसं लिहता ।
परिपीयते विकास्य हि मधुकरयूनेह मालतीकलिका ॥ ४२ ॥ निजपक्षयोरुपरि आरोपितस्तनुभरः शरीरभारो यस्मिन्कर्मणि यथा भवति तथा, अति निपुणमतिसावधानं च यथा स्यात्तथा रसं लिहता पुष्परसमाखादयता | पक्षाभ्यामुड्डीयमानतया पक्षार्पितशरीरभारेण सता, अतिसतर्क रसं लिहतेत्यर्थः । मधुकरयूना मालतीकलिका विकास्य पीयते । अत्यन्तमवहितः सन् विकासोत्तरमेव परमचातुर्येण मालतीकलिकागतं रसमाखादयति मधुकरो न विकासात्प्राक् । तथा च- - नेदानीं बालायामस्यां रतारम्भस्ते समुचितः किन्तु यौवनेन रजोविकासे सत्यपि प्रथमरतेऽतिसतर्कता त्वया रन्तव्यमिति नायकं प्रत्यभिव्यज्यते । पक्षान्तरे ( अत्युत्कण्ठायां विकासात्प्रागेव रतपक्षे ) तु - मधुकरो यथा पक्षाभ्यामुड्डीयमानः शनैः शनैर्विकासिताया मालतीकलिकाया रसमतिचातुर्येणास्वादयति, तथा असमर्पितभारमतिदाक्षिण्येन बालाया अस्या जघनमुत्फुलकेन विवार्य मृदुतमं रन्तव्यमिति ध्वन्यते । 'शिरो निपात्योर्ध्वं जघनमुत्फुल्लकम्' इति वात्स्यायनः । ' जघनशिरोभागमधस्ताच्छय्यायां विनिपात्योत्तानमूर्ध्वं जघनं कुर्यात् । अतिविस्तारणार्थमुपर्युपरि स्थितहस्तपृष्ठे त्रिकभागं विनिवेशयेत् । एवं जघनस्योर्ध्वं विस्तृतत्वादुत्फुल्ल मिवोत्फुल्लकमिति तट्टीका | 'पिता' इति नोक्त्वा लिहतेति कथनेन ईषदीषचुम्वनादिना बाह्यरतानन्दो ग्राह्य इति ध्वन्यते । मालतीकलिकाया रसः पीयते इति वक्तव्ये मालतीकलिका पीयते इत्यनेन यावन्नेयं विकसति तावदियं कलिकामात्रमेव नास्यां रसः, तथा च सेयमेव उपर्युपरित उत्फुलकेन संगन्तव्या, रसस्तु नोपलभ्येतेति ध्वन्यते । मधुकरयूनेति युवपदेन - त्वं यथा रसपरिज्ञानशाली तथा नेयम्, अत एव विकासं यावत्प्रतीक्षा कर्तव्येति सूच्यते । परिपीयते इत्यत्र पर्युपसर्गेण - विकासोत्तरं पूर्ण रसं लप्स्यस इति प्ररोचनाभिव्यज्यते प्रथमे पक्षे । यद्वा-त्वामपीडयन्ने वासौ रमयिष्यतीति नववधूमाश्वासयितुं नायकस्य नववधूसंभोगकौशलमन्यापदेशेन प्रतिपादयन्त्या दूत्या इयमुक्तिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org