________________
. २२६
काव्यमाला।
[स्वेदार्टीकृतसर्वाङ्गी गोत्रग्रहणेन तस्य सुभगस्य ।
दूतीं प्रस्थापयन्ती (संदिशन्ती वा) तस्यैव गृहाङ्गणं प्राप्ता ॥] खेदातिसर्वाङ्गी गोत्रग्रहणेन तस्य सुभगस्य ।
तस्यैव भवनमाप्ता दूतीं प्रस्थापयन्ती सा ॥ ४०॥ दूतीं प्रस्थापयन्ती प्रेषयन्ती सा । गोत्रग्रहणेन नामग्रहणेन। खेदातिसर्वाङ्गी स्वेदेनार्दीकृतानि सर्वाण्यङ्गानि यस्याः एवंविधा सती तस्य भवनमेव गृहाङ्गणमेव प्राप्ता । नामनिर्देशसमये तन्नाम्ना तदङ्गसंस्थानस्य भावनावशात्सात्त्विकभावस्य खेदस्योद्गमो जात इत्यर्थः । अनेन सततं तद्गतचित्तायास्तस्या औत्सुक्यातिशयो व्यज्यते । दूती प्रेषयन्त्याः स्वयं गृहाङ्गणस्यैव प्राप्त्या वेद्यान्तरशून्यता सूच्यते । तया च मोहानुगुणा दशा व्यज्यते। सर्वाङ्गस्वेदवर्णनेन-नामग्रहणे नायकस्मरणात् समागमसमयतदङ्गावसक्तनिजसर्वाङ्गाणामध्यासस्तस्या जात इति सततं नायककर्मकभावनाविशेषो व्यज्यते । खेदाद्यनुभावैः, औत्सुक्यमोहादिभिः संचारिभिश्च नायकालम्बनाया नायिकानिष्टरतेः परिपोषो ध्वन्यत इत्यलम् । 'अत्यासक्त्या बाह्यमसंवेदयन्त्याः कस्याश्चिद्वृत्तं कापि सखीशिक्षार्थमाह' इति गङ्गाधरटीका ।
दुःसहया विरहवेदनया निजपर्यवसानं सूचयन्ती काचिद्दयितानयनाय सखीजनं • त्वरयितुं कुसुमशरनमस्कारभशीमेवमङ्गीकरोति
जम्मन्तरे वि चलणं जीएण खु मअण तुज्झ अच्चिस्सम् । जइ तं पि तेण बाणेण विज्झसे जेण हं विज्झा ॥४१॥ [जन्मान्तरेऽपि चरणौ जीवेन खलु मदन तवार्चयिष्यामि । __ यदि तमपि तेन बाणेन विध्यसि येनाहं विद्धा ॥] जन्मान्तरेपि चरणौ जीवेन मदन तवार्चयिष्यामि ।
यदि तमपि तेन विध्यसि विद्धाहं येन विशिखेन ॥४१॥ हे मदन ! येन बाणेनाहं विद्धा, तेन यदि तमपि कान्तमपि विध्यति, तर्हि अस्मिन् जन्मन्येव किम् जन्मान्तरे अग्रिमे जन्मन्यपि, अन्यवस्तुद्वारा किं जीवेन निजजीवितद्वारा तव चरणावर्चयिष्यामि । येन बाणेनाहं विद्धा तेनेलनेन-तव पञ्चशरत्वेपि यो बाणो मद्धृदये यादृशीं पीडां चकार नान्यो बाणस्तथा कुर्यादत एव तेनैव बाणेन विध्य, तदन्येषां चतुर्णामन्यतमेन नेति, पीडातिशयस्यानुभवो ध्वन्यते । जीवेनार्चयिष्यामी. त्यनेन-विरहवेदनावसन्नसर्वाङ्याः प्रियनिवेदितचित्ताया मे निवेदनोचितं जीवितमेवावशिष्टमिति ध्वन्यते । जन्मान्तरेपीत्यनेन-वियोगानलदग्धदेहाया में समाप्तप्रायमिदं जीवितम् , अत एव तवेममुपकारं जन्मान्तरेपि मानयिष्यामीति मान्तिकं विरहदुःखं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org