________________
५ शतकम् ]
संस्कृतगाथासप्तशती ।
नावैति योपि तस्यापि वदति भग्नानि तेन वलयानि । ऋजुकाधिकं वराकी, दयितो वास्या हताशायाः ॥ ३८ ॥ भनकरवलयैव प्रकटं स्थिता सेयम् - योपि नावैति न जानाति, तस्यापि तेन मे वलयानि भग्नानीति वदति । भग्नवलयौ करौ वहन्ती सेयं स्वमुखेनेव जारकृतकङ्कणभङ्ग वदतीत्यर्थः । अत एव सेयं वराकी अतिऋजुका, रहस्यस्यागोपनात् । अथवा हताशाया अस्या दयितः अतिऋजुकः, यो गोपनीयसुरतप्रसङ्गेपि वलयभङ्गादि रतप्रकाशककार्यमविचारात्कृतवानिति भावः । वराकीपदेन वलयपदगोपनरूपं सामान्य कार्यमपि कर्तुमशक्नुवतीं प्रति दयनीयतया पक्षपातो ध्वन्यते । येन वलयानि भग्नानि तं दयितं प्रति आक्रोशमप्रयुज्य 'अस्या हताशायाः' इत्यत्र हताशापदेन तां वराकीं प्रत्येवाक्रोशप्रदर्शनात् 'अनया दयित एवैतादृगुपलब्धो यो रहस्यगोपनं न वेत्ति, एतेन चास्या एव लजा गच्छति न तस्य' इत्युपालम्भो ध्वन्यते । 'रतप्रवृत्तजारभमवलयायाः सपत्न्याश्चारित्रखण्डनं प्रकाशयन्ती काचिदाह' इति गङ्गाधरः । प्राकृतवत् संस्कृतेपि अतिऋजुकेति निःसन्धिकः प्रयोगस्तु गङ्गाधरस्याप्रयुक्त एवेति मच्छायायाम् 'ऋजुका धिकम्' इति निरवर्त्यत ।
कस्याश्चन कपोललावण्यलक्ष्मीं वर्णयन्कश्चिदात्मनश्रुम्बनाभिलाषं प्रकाशयतिसामाइ गरुअजोवणविसेसभरिए कवोलमूलम्मि | पिजर अहोमुहेण व कण्णवअंसेण लावण्णम् ॥ ३९ ॥ [ श्यामाया गुरुकयौवन विशेषभृते कपोलमूले । पीयतेऽधोमुखेनेव कर्णावतंसेन लावण्यम् ॥ ]
श्यामाया गुरुयौवनविशेषभरि कपोलमूलेऽस्मिन् । पीयत इव लावण्यं न्यङ्मुखकर्णावतंसेन ॥ ३९ ॥
२२५
Jain Education International
For Private & Personal Use Only
-
श्यामाया उत्तमनायिकायाः । षोडशवार्षिक्या इति केचित् । गुरुणा पूर्णेन यौवनेन विशेषतो भरिते ( मांसले ) कपोलमूले न्यङ्मुखेन अधोमुखेन कर्णाभरणेन लावण्यरसः पीयत इव । अन्योप कपोलाभिमुखं न्यश्चितमुखः सन्कपोलं चुम्बति, एवमेवाधोमुखो सौ कर्णावतंसो यौवनेन मांसलतया समीपागते कपोलमूले लावण्यरसं पिबतीति भावः । अहमप्यनेन प्रकारेण चेदिमं रसं गृह्णीयां तर्हि भाग्यमभिनन्देयमिति नायकेनाभिव्यज्यते । अत्रापि इवकारस्य पीयते अनेन साकमेव संबन्धः, पानस्यैवोत्प्रेक्ष्यमाणत्वात् । पीयते अत्र लावण्यकर्मकस्य पानस्य बाधितत्वाद् ग्रहणे लक्षणा । तेन लावण्यरसस्य निरतिशयमनुभवं करोतीति बहुमानातिशयो ध्वन्यते ।
अतिशयितेनानुरागेण बाह्यज्ञानशून्यायाः कस्याश्चिदवस्थाविशेषं सखीं प्रति काचिदाहसेडल्लिअसवङ्गी गोत्तग्गहणेण तस्स सुहअस्स । दूई पठाएन्ती तस्सेअ घरङ्गणं पत्ता ॥ ४० ॥
•
www.jainelibrary.org