________________
२२४
काव्यमाला।
धरै न कस्यापि जनस्यात्र संचारशङ्का, तन्निःशङ्कं रम्यतामित्युपपतिं प्रत्यभिव्यज्यते । घनो रसतीत्यनेन मेघगर्जनशब्दाद्रमणसमये कंकणादिशब्दोपि न कस्यापि कर्णगोचरो भवेदिति ध्वन्यते । नवजलधारा इत्यनेन प्रथमवर्षाजलस्य खास्थ्यविघातकत्वाद् वर्षाभिरनुद्विजन्नपि पुरुषो न बहिर्निर्गमिष्यतीति द्योत्यते । बद्धामित्यनुक्त्वा संघटिता. मित्यनेन संग्रथनं सूच्यते, तेन रजद्वारा परितः संग्रथ्यो–कर्षणोत्प्रेक्षणाजलधाराणां सान्द्रत्वातिशयो ध्वन्यते । 'रसतीव' इति रसतीत्यनेन सह इवशब्दसंबन्धस्तु गङ्गाधरादिप्रदर्शितो न मनोरमः । गर्जनस्य खतो जायमानत्वेनोत्प्रेक्षणाभावात् , किन्तु तत्रोतक्षेप्तमप्रभवनमेव हेतुत्वेनोत्प्रेक्ष्यमिति सुधीभिरनुसंधेयम् ।
कान्तवियोगस्य संप्रति दुःसहत्वं सूचयन्ती काचित्प्रियाऽऽनयनत्वरार्थ हृदयोपाल. म्भव्याजेनात्मपीडां श्रावयति
ओ हिअअ ओहिदिअहं तइआ पडिवजिऊण दइअस्स । अत्थेक्काउल वीसम्भघाइ किं तइ समारद्धम् ॥ ३७॥ [हे हृदय अवधिदिवसं तदा प्रतिपद्य दयितस्य ।
अकस्मादाकुल विनम्भघातिन् किं घया समारब्धम् ॥] अयि हृदयावधिदिवसं प्रतिपद्य तदा हि दयितस्य । विरम्भघातकाकुल किमिदमकस्मात्त्वया समारब्धम् ॥ ३७॥ अयि हृदय ! तदा प्रवासगमनसमये अवधिदिवसं दयितस्य प्रतिपद्य दयितसमक्षं स्वीकृत्य । अकस्मादाकुल सहसैव व्याकुलतामनुभवत् ! अत एव हे विघम्भघातिन् विश्वासघातिन् ! त्वया इदं किं समारब्धम् । यदा प्रियतमसविधे अवधिदिनं नियमितं तदा तावत्पर्यन्तं विश्वासः कर्तव्य आसीत्त्वया तु मध्य एव व्याकुलताङ्गीकृता, सोयं ते विश्वासघात इति भावः । अहं तावत्पर्यन्तं प्राणान्धारयितुं न प्रभविष्याम्येवं मे व्याकुलतेति दयितानयनत्वरार्थं सखी प्रति ध्वन्यते । किमिदमारब्धमित्यनेन-मम हृदये तावती वेदना यामहं सम्यक्तया न परिच्छिनीति विकलतातिशयो ध्वन्यते । हृद. यामन्त्रणेन 'न मे वशः, अकस्मादेव हृदये तादृशी पीडाभूदिति निजपारतच्यं सूच्यते । आरब्धमिति भूतकालिकक्तप्रत्ययेन 'सेयं व्याकुलता बहोः कालादारब्धैव, इदानीमेतस्या अपनयनमेव चिन्त्यतां नान्यः प्रत्युपायः' इति द्योत्यते।
सुरतव्यतिकरेण भग्नवलयायाः कस्याश्चन सुदृशो रहस्यगोपनाऽपाटवं सर्वतः सूचयन्ती काचित्साकूतमाह
जो वि ण आणइ तस्स वि कहेइ भग्गाइँ तेण वलआईं। अइउज्जुआ वराई अह व पिओ से हआसाए ॥३८॥ [ योऽपि न जानाति तस्यापि कथयति भग्नानि तेन वलयानि ।
अतिऋजुका वराकी अथवा प्रियस्तस्या हताशायाः ॥]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org