________________
५ शतकम् ] संस्कृतगाथासप्तशती।
२२३ [कुत्र गतं रविबिम्ब कुत्र प्रणष्टाश्चन्द्रतारकाः ।
गगने बलाकापङ्गिं कालो होरामिवाकर्षति ॥] कुत्र गतं रविविम्वं नष्टाः किल चन्दतारकाः कुत्र ।
नभसि बलाकापकिं होरामिव कर्षति हि कालः ॥ ३५॥ घनघटाच्छन्नत्वात्सूर्यचन्द्रतारका दृष्टितो लुप्ताः । अत एव कालस्तेषां सूर्यादीनां प्रतिसाधनार्थ नभसि आकाशे बलाकापति बकत्रीराजि होरामिव कठिनी-(खटिका 'खडिआ' )-रेखामिवाकर्षति विदधाति । अन्योपि ज्योतिर्वित् सूर्यादिग्रहप्रतिसाधनार्थ ( स्पष्टीकरणार्थम् ) रजझाच्छादितायामवनौ कठिनीरेखामाकर्षति । यथा हि गणिताध्याये भास्कराचार्यः-“समायामवनौ ग्राह्यार्धप्रमाणेन सूत्रेणेष्टस्थानकल्पितबिन्दोवृत्तं लिखित्वा तस्मादेव बिन्दोर्मानैक्यखण्डप्रमाणेन सूत्रेणान्यद्वृत्तं कृत्वा तस्य बिन्दोपरि प्राच्यपरं याम्योत्तरं च सूत्रं खटिकया रजसा च रेखे कार्ये” इति । आकाशे दृश्यमानेयं बलाकापति न्ति, किन्तु नष्टानां सृर्यादीनां प्रतिसाधनार्थ ज्योतिविदा इव कालेन कठिनीरेखेयमङ्कितास्तीति भावः । 'होरा लग्नेपि राश्यधैं रेखाशास्त्रभिदोरपि' इति मेदिनी । एवं च कालोप्यस्मिन् घनघटाच्छन्नतमे गगने सूर्याचन्द्रमसोरन्वेषणं कुरुते । भवानेवं विधेऽन्धकाराच्छन्नतयाऽनुपलब्धपथे कामोन्मादमये समये कुत्र गमिष्यतीति कान्तं ध्वन्यते । वर्षासु पतिबन्धेन गगने बलाकानामवस्थानं प्रसिद्धम् । यथा-'गर्भाधानक्षणपरिचयान्नूनमावद्धमालाः सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः' इति कालिदासः । बलाका अपि वर्षास्वेवं सज्जास्तिष्ठन्ति, अहं तु त्वत्प्रस्थाने सर्वमिदं विसर्जयिष्यामीत्येतदपि यदि बुद्धौ स्फुरति तर्हि व्यज्येत । शङ्काकुलस्योपपतेः शङ्कापनयनाय प्रबलवर्षाशङ्कारमेवं वर्णयति काचित्
अविरलपडन्तणवजलधारारजुघडिअं पअत्तेण । अपहुत्तो उक्खेत्तुं रसइ व मेहो महिं उअह ॥ ३६ ॥ [अविरलपतन्नवजलधारारजुघटितां प्रयत्नेन ।। __ अप्रभवनुत्क्षेतुं रसतीव मेघो महीं पश्यत ॥] अविरलनिपतनवजलधाराघनरज्जुनिविडसंघटिताम् ।
अप्रभवनुत्क्षेप्नु रसतीव महीं घनो विलोकयत ॥ ३६ ।। घनो मेघः । अविरलं निपतन्त्यो नवजलधारा एव धनाः सान्द्रा रजवस्ताभिर्निबिडं संघटितां बद्धां महीम् उत्क्षेप्तुम् ऊर्ध्वमाक्रष्टुम् अप्रभवन् अशक्नुवन् सन्निव रसति शब्दायते इति विलोकयत । इमा निरन्तरासारा जलधारा न सन्ति किंतु पृथिवीमूर्धमाकष्टुं बद्धा निबिडा रज्जवः सन्ति । तद्वारा महीमुत्क्षेतुमशनुवन्निवायं जलधरः श्रमविनोदार्थ शब्दायत इत्युत्प्रेक्षा । अन्येपि बृहत्पाषाणादिकं रजुभिधा ऊर्ध्वमुत्क्षि. पन्तो भारवाहाः शब्दं कुर्वन्तीति भावः । तथा च-एवं मुशलधारावर्षे वर्षति वारि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org