________________
२२२
'काव्यमाला। क्षणमुञ्छति मार्जयति क्षणमुद्धवति क्षणं न तद्विदती ।
मुग्धवधूः स्तनपृष्ठे दत्तं दयितेन नखरपदम् ॥ ३३ ॥ मुग्धा वधूः । नखरपदं नखक्षतम् । तत् न विदती, तस्य नखक्षतस्य याथार्थ्य न जानतीत्यर्थः । क्षणम् उञ्छति प्रोञ्छति वस्त्रादिनापमाष्टीत्यर्थः । क्षणं मार्जयति जलेन क्षालयति । क्षणमुडुवति वस्त्रादिना प्रस्फोटयति ( 'फटकारना' 'झडकारना' हिन्दीभाषायाम् ) 'स्वेनेभाजिनपल्लवेन रभसात्प्रास्फोटयर्जटिः' इत्यनर्घराघवे मुरारिः । स्तनपृष्ठे नखक्षतं दृष्ट्वा किमिदमिति हस्तेन पूर्व प्रोञ्छति । हस्तेन तदपनयनाभावे क्षालयति । ततोपि नापयाते तस्मिन् वस्त्रादिना प्रस्फोटयतीति मुग्धचेष्टितैर्नायिकायाः सारल्यातिशयो व्यज्यते । स्तनपृष्ठ इति पृष्टपदेन कन्दुकाकारयोः स्तनयोः कठोरता व्यज्यते । 'सपन्या दुश्चरितं सूचयितुं कापि सोपालम्भमाह' इति गङ्गाधरः । नायकमुत्कण्ठयितुं नायिकाया नवयौवनं प्रतिपादयन्या दूत्या इयमुक्तिरित्यपि केचित् ।
निबिडघनघटाच्छन्नतयाऽन्धकारितदशदिगन्तरासु वर्षासु नियतसंकेतनिकुञ्जऽभिसारसुखमनुभूतवती काचित्प्रावृट्समाप्तौ तस्यासौकर्य बोधयन्ती शरद्वर्णनप्रस्तावमवतारयति
वासारत्ते उण्णअपओहरे जोवणे व वोलीणे । पढमेककासकुसुमं दीसइ पलिअं व धरणीए ॥ ३४॥ [वर्षाकाले उन्नतपयोधरे यौवन इव व्यतिक्रान्ते ।
प्रथमैककाशकुसुमं दृश्यते पलितमिव धरण्याः ॥] यौवन इव नववर्षाकाले प्रोन्नतपयोधरे याते।
प्रथमैककाशकुसुमं पलितमिवालोक्यते भूमेः ॥ ३४॥ प्रोन्नताः पयोधरा मेघा यस्मिन् ईदृशे वर्षाकाले । प्रोन्नतौ पयोधरौ स्तनौ यस्मिन्नेवविधे नवयौवन इव व्यतिक्रान्ते सति । प्रथममेकं काशपुष्पं भूमेः पलितमिव वार्धक्यजातं केशशौक्लयमिवालोक्यते। तथा च, वर्षाकाले यावती शृङ्गाररसोपकरणसामग्री न तावती शरत्समये इति वर्षाणां प्रियकरत्वं व्यज्यते । जरत्याः संमुखे शृङ्गारचेष्टाप्रकाशनानौचित्येन वनभूमौ नेदानीमभिसरणं भविष्यतीति वश्या ध्वन्यते। 'आत्मनः संकेतस्थानगमनं जारं प्रति श्रावयन्ती कापि शरद्वर्णनमाह' इति गङ्गाधरः । यद्वा-न केवलं मामेव वार्धकं असते, पश्य धरण्या अपीमामेवावस्थामिति हसन्तं विटं प्रति जरद्वेश्यायाः कस्याश्चिदियमुक्तिः ।
एवंविधे समये तव विदेशगमनमनुचितमिति नायकं सूचयन्ती काचिद्वर्षासमयं वर्णयति
कत्थ ग रइबिम्बं कत्थ पणवाओं चन्दताराओ। गअणे वलाअपन्ति कालो होरं व कटेइ ॥ ३५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org