________________
५ शतकम् ]
संस्कृतगाथासप्तशती ।
२२१
२२१
[तथा तस्य मानपरिवर्धितस्य चिरप्रणयबद्धमूलस्य ।
मातुलानि पततः श्रुतः शब्दोऽपि न प्रेमवृक्षस्य ॥] मानपरिवर्धितस्य हि चिरप्रणयवद्धमूलस्य ।
मातुलि रवोपि पततः श्रुतोष न प्रेमवृक्षस्य ॥ ३१ ॥ मानेन प्रणयबहुमानेन परिवर्धितस्य । चिरप्रणय एव वद्धं दृढं मूलमस्य । प्रेमरूपस्य वृक्षस्य पततः रवोपि न श्रुतः। मानपरिवर्धितस्य प्रकाण्डपरिमाणानुसारं वर्धितस्य दृढमूलस्य वृक्षस्य प्रायः पतनमेव दुर्घटम् , दैवाद्यदि पतनं भवेत्तथापि शब्दस्त्ववश्यं भवेत् । सोप्यत्र नास्तीति भावः। तथा च-चिरान्मयि दृढसक्तोपि वल्लभोन्यत्रासक्त्या प्रेमभङ्गं कृतवान् , न चैतद्विषयिणी काचिचर्चाप्यश्रूयतेति मातुलानी प्रति सूच्यते । 'कापि मानग्रहिलायाः सख्याः खण्डितं सौभाग्यं मातुलान्यां सविस्मयमाह' इति गङ्गाधरः । अगृहीतानुनयां मानिनी सखी सखेदमाह--
पाअपडिओ ण गणिओ पि भणन्तो वि अप्पि भणिओ। वचन्तो वि ण रुद्धो भण कस्स कए कओ माणो ॥३२॥ [पादपतितो न गणितः प्रियं भणन्नप्यप्रियं भणितः।
ब्रजन्नपि न रुद्धो भण कस्य कृते कृतो मानः ॥] गणितो न पादपतितो भणितो विप्रियमपि प्रियं जल्पन् ।
न निरुद्धो निर्यन्नपि वद कस्य कृते कृतो मानः ॥ ३२ ॥ पादयोः पतितोपि न गणितो नावेक्षितः। (प्रिय इत्यर्थत आक्षिप्यते) । प्रियं जल्पन्नप्यप्रियं भणितः । केलिभवनान्निर्गच्छन्नपि न निरुद्धः। कस्य कृते कस्यार्थे । त्वया मानः कृत इति वद । दम्पत्योः प्रणयपरिपाकजनितो मानः पादपतनादिकं फलमुपलभ्य परिसमाप्यते । ततश्च पादप्रणामोत्तरमपि तवायं मानः किंनिमित्त इति भावः । 'कस्य कृते' इत्यनेन पादपतनोत्तरमपि यद्यधिकं मानग्रहिला भविष्यसि तर्हि प्रियस्त्वयि विरक्तो भवेत् । तथा च प्रियप्रणयभङ्गे सति कीशोयं ते मानः, अनुचितमेव ते मानग्रहिलत्वमिति सख्याभिव्यज्यते । अथवा-कस्य कृते कं वा युवानं रमयितुं त्वया मानग्रहिलतयाऽयमवसरः संपादित इति सकोपोपालम्भं सख्या वचनमिति केचिदाहुः । मानिनीमनुनेतुमेतावदनुधावनमनौचित्यं जनयेदतः पूर्वोक्ताशय एव सम्यगिति साम्प्रदायिकाः । कस्याश्चन मुग्धाया निभृतचेष्टितं कस्माच्चन स्थानात्पश्यन्नागरिकः सहचरमाह
पुसइ खणं धुवइ खणं पप्फोडइ तक्खणं अआणन्ती । मुद्धवहू थणवट्टे दिण्णं दइएण णहरवअम् ॥ ३३ ॥ [प्रोञ्छति क्षणं क्षालयति क्षणं प्रस्फोटयति तत्क्षणमजानती : मुग्धवधूः स्तनपदे दत्तं दयितेन नखरपदम् ॥]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org