________________
२२०
काव्यमाला।
शृण्वतीं कांचन नायिकामुपलक्ष्य निजसहृदयतां प्रकटयन्कश्चित्सहचरमाहखिप्पइ हारो थणमण्डलाहि तरुणीअ रमणपरिरम्भ । अच्चिअगुणा वि गुणिनो लहन्ति लहुअत्तणं काले ॥ २९ ॥ [क्षिप्यते हारः स्तनमण्डलात्तरुणी भी रमणपरिरम्भे । __ अर्चितगुणा अपि गुणिनो लभन्ते लघुत्वं कालेन ॥] स्तनमण्डलात्तरुण्यो हारमपास्यन्ति रमणपरिरम्भे ।
गुणिनो महितगुणा अपि लाघवमुपयान्ति कालेन ॥ २९ ॥ रमणपरिरम्भे दयितालिङ्गनसमये । अपास्यन्ति दूरमपनयन्ति । महितः प्रशस्तो गुणो येषामीदृशा गुणिनः । कालवशाल्लाघवं पराभवमुपयान्ति । गुणिपदं श्लिष्टम् , गुणः सूत्रं शौर्यादिकं च । 'उपादेयोर्थः कदाचिदनुपादेयतां यातीति निदर्शयन्कश्चिदाह' इति गङ्गाधरः । 'क्षिप्यते' इति शृङ्गारे न मनोहराण्यक्षराणीति कर्तृवाच्येन परिवर्तितम् । यदि तु मूलपदाङ्कानुसरण एवाग्रहस्तर्हि 'स्तनमण्डलायुवतिभिहारः क्षिप्येत' इति पाठ्यम् । मनोभिलषिते नायके आत्मनोनुराग मन्मथव्यथां चाभिव्यञ्जयन्ती काचित्सखीनाह
अण्णो को वि सुहावो मम्महसिहिणो हला हआसस्स । विज्झाइ णीरसाणं हिअए सरसाण झत्ति पजलइ ॥ ३० ॥ [अन्यः कोऽपि स्वभावो मन्मथशिखिनो हला हताशस्य ।
निर्वाति नीरसानां हृदये सरसानां झटिति प्रज्वलति ॥] अन्यः कोपि निसर्गो मन्मथशिखिनो हला हताशस्य । निर्वाति नीरसानां हृदि सरसानां ज्वलति झटिति ॥ ३०॥ निसर्गः खभावः । हला हे सखि, हण्डे हल्ले हलाह्याने' इत्यमरः । हताशस्येति कामाग्निं प्रतीÜसूचनार्थम् । मन्मथशिखिनः कामानेः । नीरसानामनुरागरहितानां शुष्काणां च । निर्वाति प्रशान्तो भवति । सरसानामनुरागिणामार्द्राणां च । अग्निः किल शुष्क ज्वलति, आर्द्र च निर्वाति । कामानलस्य तु तद्विपरीत एव स्वभाव इत्यर्थः । विरोधो वाच्योऽलंकारः। नीरसानां हृदि शुष्कतारूपकारणसत्त्वेपि ज्वलनकार्यानुदयाद्विशेषोक्तिः। सरसानां हृदि शुष्कतारूपस्य ज्वलनकारणस्याभावेपि कार्योदयाद्विभावना वा । बद्धानु. रागाहं मनोभिलषितेन तेन नायकेन विना बाढमान्तरव्यथामनुभवामीति व्यङ्ग्यम् । __ अन्यत्रासक्तस्य मन्दस्नेहस्य नायकस्य प्रणयभङ्गं सूचयन्ती काचिद्रहस्यान्तभुक्तां मातुलानीमाह--
तह तस्स माणपरिवड्डिअस्स चिरपणअवद्धमूलस्स । मामि पडन्तस्स सुओ सदो वि ण पेम्मरुक्खस्स ॥ ३१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org