________________
५ शतकम् ]
संस्कृतगाथासप्तशती।
अनुमृतेः अनुमरणस्य गृहीतो वेषो याभिस्तासु । मर्मच्छेदेष्वपि मर्मान्तकदुःखेप्वपीत्यर्थः । सर्वा एव दयिता अनुमरणाय वहिं प्रवेक्ष्यन्तीः पर्यन्ततो वीक्षमाणस्य प्रामनायकस्य मर्मच्छेदा भवन्तीति भावः । एवं दुःखातिरेके सत्यपि प्रामण्यो ग्रामनायकस्य दृष्टिः । वल्लभाभिमुखं वल्लभायाः अत्यन्तप्रियायाः प्रियाया अभिमुखं वलते। सर्वाः प्रति इतस्ततो भ्रान्त्वा तत्रैव विश्राम्यतीत्यर्थः । सर्वा एवानुमरणार्थ सज्जास्तथापि स्नेहालम्बनभूतायाः सुभगाया एवोपरि वारंवारं दृष्टिः संचरतीति भावः । एवं च प्रभूतधन-गृहस्वामिनीत्वाद्यपेक्षया प्रियप्रणयपात्रत्वमेव समधिकं कामनीयम् , येनावसानसमयेपि दयितां दयितो न विस्मरतीति सख्या नायिका प्रति सूच्यते । यद्वा-मरणदशामापन्नोपि सुभगामेव पश्यति, युष्माखद्यापि विरक्तस्तस्मादनुमरणान्निवर्तध्वं कुरुध्वं च जारमित्यभिप्रायेण कुट्टन्या इयमुक्तिरिति केचित् । प्रियमधुरवादिनेपि कान्ताय किमिति कुप्यसीति वादिनी मातुलानी काचित्प्रत्याहमामि सरसक्खराण वि अस्थि विसेसो पअम्पिअवाणम् । हमइआण अण्णो अण्णो उवरोहमइआणम् ॥ ५० ॥ [मातुलानि सदृशाक्षराणामप्यस्ति विशेषः प्रजल्पितव्यानाम् ।
स्नेहमयानामन्योऽन्य उपरोधमयानाम् ॥] मातुलि समाक्षराणामप्यस्ति विशेष एष वचनानाम् ।
अन्यः स्नेहमयानामन्यो ह्युपरोधगदितानाम् ॥५०॥ हे नातुलि ! समानि सदृशानि अक्षराणि येषु तेषामपि । वचनानामेष विशेषःस्नेहमयानामन्यः, उपरोधेन कस्यचिदनुरोधेन गदितानामनुरोधमयानामिति यावत् , अन्यो भिन्नः । नेहाभावेपि अन्य व्यामोहयितुं कितवजनो मधुराक्षराणि वचनान्युपन्यस्यति, परं तेषु वचनेष्वक्षरसाम्येपि अनुभवैकगम्यः स खरविशेषो न भवति यः किल स्नेहमयवचनेषु भवतीति भावः। तथाच मदनुरोधवशादयमुपरितो मधुरवचनोपचारेण मां प्रतारयति, नास्य हार्दिकः स्नेह इति मातुलानी प्रति नायिकयाभिव्यज्यते । कुत्रचित्पुस्तकेषु 'मामि' इति स्थाने 'सुहा' इति पाठ उपलभ्यते । तत्र 'सुभग' इति संबोधनानुरोधेन कथं मामवधीरयसीति वदन्तं नायकं प्रति नायिकाया इयमुक्तिर्बोध्या । अन्याखासक्तमपि दाक्षिण्यवशान्मधुरं वदन्तं नायकं प्रति काचित्सरोषमाहहिअआहिन्तो पसरन्ति जाइँ अण्णा. ताई वअणाई । ओसरसु किं इमेहिं अहरुत्तरमेत्तभणिएहिं ॥५१॥ [हृदयेभ्यः प्रसरन्ति यान्यन्यानि तानि वचनानि ।
अपसर किमेभिरधरोत्तरमात्रभणितैः ॥] प्रसरन्ति हृदयदेशाद्यानि हि भिन्नानि तानि वचनानि । अपसर कितव किमेतैरधरोत्तरमात्रभणितैस्ते ॥५१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org