Book Title: Gathasaptashati
Author(s): Nathuram Shastri
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 323
________________ २३८ काव्यमाला। मदनपटो मधूच्छिष्टम् तस्य द्रवीकरणस्य व्याजेन । दयितदंशनेन व्रणिते अधरे ॥ सुरते वस्त्रविमो कादिषु सुभृशं विप्रतिपद्यमानां नवीनां कांचिन्नायकप्रेरिता सखी शिक्षयति रइविरमलजिआओ अप्पत्तणिअंसणाओँ सहस व्व । ढक्कन्ति पिअअमालिङ्गणेण जहणं कुलवहूओ ॥ ५९॥ [रतित्रिरामलजिता अप्राप्तनिवसनाः सहसैव । __ आच्छादयन्ति प्रियतमालिङ्गनेन जघनं कुलवध्वः ॥] सुरतविरामविलक्षा अनाप्तवसनाश्च सहसैव। आच्छादयन्ति जघनं प्रियतमपरिरम्भणेन कुलवध्वः ॥ ५९॥ पूर्व रसाविष्टतया अजानन्त्योपि सुरतविरामे लजिताः, ततश्च सहसैव न प्राप्त निवसनं याभिस्ताः । आच्छादयन्तीत्यनेन लजातिशयसूचकं येन केनापि प्रकारेण गोपनं व्यज्यते। अत्युग्रस्वभावं बहासक्तमपि दयितं वशीकृतवत्याः सपत्न्याः सौभाग्यं काचिदन्यापदेशेन सासूयमाह पाअडिअं सोहग्गं तम्बाए उअह गोट्ठमन्झम्मि । दुहवसहस्स सिङ्गे अक्खिउडं कण्डुअन्तीए ॥६०॥ [प्रकटितं सौभाग्यं गवा पश्यत गोष्ठमध्ये । दुष्टवृषभस्य शृङ्गे अक्षिपुटं कण्डूयन्त्या ॥] प्रकटितमतिसौभाग्यं पश्यत गोष्ठे गवा ह्यनया। दुष्टवृषभस्य शृङ्गे कण्डूयन्त्या नयनपुटम् ॥ ६०॥ 'गोष्ठे'पदेन नारीमण्डलेपि सत्यनयैव वशीकृत इति संसक्तबहुनारीकोयमिति ध्वन्यते । 'गवा अनया' इत्यनेन 'उपरितो मुग्धायितयापि अनया एतादृशोपि विषमशीलोयं वशीकृत इति साकूतं व्यज्यते। दुष्टवृषभस्येत्यनेन-नवोढासक्ततया आत्मानं परित्यक्तवन्तं नायकं प्रति असूया व्यज्यते। अतितीक्ष्णे शृङ्गे अतिसुरक्षणीयस्य नयनपुटस्य कण्डूयनोक्त्या अतिरहस्यप्रविष्टतया स्नेहाधिक्यं व्यज्यते । प्राकृते 'तम्बा' गौः । 'कापि कस्याश्चिम भाग्यमन्यापदेशेनाह' इति गङ्गाधरः। कस्याश्चित्सुरतरसलम्पटतां नागरिकः सहचरमाह उह संभमविक्खित्तं रमिअव्वअलेहलाएँ असईए । णवरङ्गअं कुडङ्गे ध व दिण्णं अविणअस्स ॥ ६१ ॥ [पश्य संभ्रमविक्षिप्तं रन्तव्यकलम्पटया असत्या । नबरङ्गकं कुजे ध्वजमिव दत्तमविनयस्य ॥] रतिरसलम्पटया किल पश्य कुलटयात्र संभ्रमक्षिप्तम् । नवरङ्ग निकुळे ध्वजमिव दत्तं ह्यविनयस्य ॥ ६१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446