Book Title: Gathasaptashati
Author(s): Nathuram Shastri
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 325
________________ २४० काव्यमाला | सपत्नीचरणलाक्षालाञ्छितकरं दयितं खण्डिता साकूतमाह - संवाहण सुरसतोसिएण देन्तेण तुह करे लक्खम् । चलणेण विकमाइत्तचरिअ अणुसिक्खिअं तिस्सा ॥ ६४ ॥ [ संवाहन सुखरसतोषितेन ददता तव करे लाक्षाम् । चरणेन विक्रमादित्यचरितमनुशिक्षितं तस्याः ॥ ] ददता संवाहनसुखरससंतुष्टेन तब करे लाक्षाम् । विक्रमनरेन्द्रचरितं चरणेन हि शिक्षितं तस्याः ॥ ६४ ॥ त्वत्कृतसंवाहनस्य सुखरसात् संतुष्टेन अत एव तत्परिवर्ते तव करे निजनिष्टां लाक्षाम् ( अलक्तकम्) ददता संक्रामयता तस्याश्चरणेन विक्रमादित्यस्य चरितं शिक्षितम् । सपत्नीपदसंवाहनेन त्वत्करे तस्या लाक्षा संक्रान्ता, तदिदं मया ज्ञातमिति साकूतं सूचयति । विक्रमादित्योपि 'संवाहणस्स' संबाधनस्य सुखात्संतुष्टः सन् भृत्यस्य करे ‘लक्खं' लक्षं ददाति । भृत्यकर्तृकेन शत्रुसंबाधनेन तुष्टो विक्रमादित्यो भृत्यस्य करे लक्षं समर्पितवानिति तच्चरिते श्रूयते । प्राकृते संवाहणं संबाधनम् लक्खं लक्षम् । सुखोत्तरं रसपदसंनिवेशेन-लया तथा संवाहनं कृतं यथा तत्सुखेन स्पर्शामोदजनितस्तस्य भूयानानन्दो जातः । एवं च - सपत्नीमनोनुकूलानुवर्तनेन सानुरागत्वं सूचितम् । संतुष्टपदेन संवाहनसेवायाः पूर्णता सूचिता । अत एव प्रसादसूचिका लाक्षा पुरस्काररूपेण प्राप्तेति सपत्न्याः साभिलाषानुवर्तनीयत्वमाक्षिप्यते । चरणेन विक्रमनरेन्द्रवदाचरितमित्यनेन - ' त्वं तां तथा सभयमनुवर्तसे यथा सा आत्मनि राजवदुपसेव्यत्वमभिमन्यते' इत्याक्षेपो ध्वन्यते । एवं च त्वदनुवर्तनं कुर्वतीं मां विहाय तस्याः सभयानुवर्तनं त्वं बहु मन्यसे अत एव पादसंवाहनसेवया संतोष्य लाक्षानुरञ्जनमवाप्नोषीति साकूतमु - पालम्भो ध्वन्यते । अनुनयं विनैव परित्यक्तमानां सखीं शिक्षयितुं मानस्य सुखकारकतां काचित्समर्थयते— पाअपडणाएँ मुद्धे रहसबलामोडिचुम्बिअव्वाणम् । दंसणमेतपसणे चुक्कासि सुहाणं बहुआणम् ॥ ६५ ॥ [ पादपतनानां मुग्धे रभसबलात्कारचुम्बितव्यानाम् । दर्शनमात्र प्रसन्ने भ्रष्टासि सुखानां बहुकानाम् ॥ ] मुग्धे पदपतनानां रभसबलात्कारचुम्बितव्यानाम् । अवलोकमात्रतुष्टे ! बहुलसुखानां हि वञ्चितैषासि ॥ ६५ ॥ दयितस्यावलोकनमात्रेण प्रसन्ने हे सुग्धे ! अनुनयनिमित्तानां पादपतनानाम्, रभसेन ( वेगेन ) बलात्कारेण च चुम्बनानाम् एतदादीनां बहुलसुखानाम् एषा त्वं वञ्चि तासि । पञ्चम्यर्थे षष्ठी । पादपतनादिभ्यो बहुभ्यः सुखेभ्यो भ्रष्टासीत्यर्थः । एषा त्वं Jain Education International , For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446