Book Title: Gathasaptashati
Author(s): Nathuram Shastri
Publisher: Pandurang Javji
View full book text
________________
५ शतकम् ] संस्कृतगाथासप्तशती।
२३७ मूले 'दे'शब्दः संबोधने । हे हलिकसुत ! नवलतिका करे गृहीतवतस्तव इयं पुरतो धावति परितः तव पार्श्वयोर्धमति, किञ्च ताडनभयान तिरोदधाति प्रत्युत तव दृष्टिपथे तिष्ठत्यपि । अत एव वराकी कामं प्रहर । त्वत्प्रेमवशात्प्रहारमपि प्रतीच्छन्त्या अस्यास्त्वदनुगायास्ताडनं नोचितमिति वराकीपदेन ध्वन्यते । हलिकसुतेत्यनेन कैशोर्य सूच्यते । कामं प्रहरेत्यनेन-इयं त्वय्यनुरक्ता, अस्माभिरपि चेदमभ्यूहितमिदानी यथेच्छं प्रहरेति साकूतं सूच्यते । प्रियतमनाम पृच्छद्भिर्नवपलाशादिलतया यत्र प्रियो जनो हन्यते साक्रीडा चूतलतिकेति सरखतीकण्ठाभरणे भोजः। यद्वा-नवलताकुजं संकेतस्थानं त्वं गतो न त्वियमिति कृतापराधामेनां प्रहरेति सोपहासं कुट्टनीवचनमिदमिति गङ्गाधरः।
नायिका कौमार्य एवोपभुक्तवन्तं कञ्चन विलासिनं पतिसदनेप्यभिसरन्तं वीक्ष्य तद्त्तान्तं निजवयस्याय कश्चिन्निदर्शयति
कारिममाणन्दवडं भामिजन्तं बहूअ सहिआहिं। पेच्छइ कुमारिजारो हासुम्मिस्सेहिँ अच्छीहिं ॥ ५७ ॥ . [कृत्रिममानन्दपटं भ्राम्यमाणं वध्वा सखीभिः ।
प्रेक्षते कुमारीजारो हासोन्मिश्राभ्यामक्षिभ्याम् ॥] कृत्रिममानन्दपटं भ्रामितमभितो वधूवयस्याभिः।
हासोन्मिश्रितनयनं निरीक्षते किल कुमारिकाजारः॥५७ ॥ आनन्दपटः प्रथमप्रथमं वरेण संगताया वध्वा वस्त्रम् । प्रथमसंगमे लग्नलोहितं वधूवत्रं वरसंबन्धिनीभिर्महिलाभिलॊकेषु प्रदर्यत इति देश विशेषे आचारः । ततश्चजारसंगमेन पूर्वमेव दृष्टशोणितत्वात्संप्रति अयथार्थत्वात्कृत्रिममानन्दपटं वध्वाः रहस्यभुक्ताभिः सखीभिरभितो भ्राम्यमाणं हासोन्मिश्राभ्यां नयनाभ्यां स जारः प्रेक्षत इत्यर्थः। अन्यस्य पराक्रमेपि अन्यकृतिं प्रख्याप्य अनवसरं संभ्रमदर्शनमिति जारस्य हास इत्याशयः । 'कृत्रिमं सर्वमुपहासास्पदं भवतीति निदर्शयन्कश्चित्वस्य वैदग्ध्यख्यापनाय सहचरमाह' इत्यवतरणम् , 'आनन्दपटः प्रथमपुष्पवतीवस्त्रम् । प्रथमरजोद. र्शने जाते तदनं बन्धुभिलॊकेषु प्रदर्यत इति देशविशेषे आचारः । जारसंबन्धदृष्टशोणिताया अस्थानं संभ्रमदर्शनेन जारस्य हासः' इति गङ्गाधरकृतं तद्विवरणं च ।
शिशिरसमये अधरोष्णिना मधूच्छिष्टं लापयन्ती तरुणीं वीक्ष्य कश्चिदात्मनो वैदग्ध्यप्रदर्शनाय सहचरमाह
सणि सणि ललिअङ्गलीअ मअणवडलाअणमिसेण । बन्धेइ धवलवणवट्ट व वणिआहरे तरुणी ॥ ५८ ॥ [शनकैः शनकैर्ललिताङ्गुल्या मदनपटलापनमिषेण ।
बनाति धवलवणपट्टमिव व्रणिताधरे तरुणी ॥] शनकैः शनकैललिताङ्गल्या मदनपटलापनमिषेण । व्रणिताधरे हि तरुणी धवलव्रणपट्टमिव निबध्नाति ॥ ५८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446