Book Title: Gathasaptashati
Author(s): Nathuram Shastri
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 299
________________ २१४ काव्यमाला। वयं कुलटास्तथाप्युत्तमनायकासक्तास्त्वं तु नापितद्वारा सतीत्वं हारितवती । अत्र कुलटाकलहखभावोक्तिरलंकारो वाच्यतेनापि च-'अस्माभिः केवलं निजनामैव कलङ्कितं त्वया तु 'गोत्रम्' कुलमेव कलङ्कितम्' इति गोत्रपदशक्तिसमुत्थेनानुरणनेन वक्री प्रति भूयानाक्षेप ईर्ष्या चाभिव्यज्यते । चन्दिलशब्दो नापितार्थवाचको देशीति कुलबालदेवः । प्राप्तार्धचन्द्रः सर्वनिर्वास्यो दुर्दैवो नीच इत्यर्थः । कदाचन न भवेत् ! यस्य जयपुरीयभाषायां 'चांदडा' 'करमचांदडा' इति हि सुमधुरो व्यपदेशः!! ध्वनिकारस्तु'आम् असत्यो क्यम्' इत्यत्र काका 'न वयमसत्यः' इति व्यङ्ग्यार्थप्रतीतिः, सा किल वाच्यार्थसहभावेनैव स्थिता । अयं भावः-यावत्किल काक्वा प्रतीयमानस्य व्यङ्ग्यार्थस्य न बोधो भवेत्तावद्वाच्यार्थस्यैव संगतिर्न भवेदत एव व्यङ्ग्यस्य वाच्याश्रयतया स्वातन्त्र्याभावान ध्वनित्वव्यपदेशः । किं तु गुणीभूतव्यङ्ग्यत्वव्यपदेशः । तत्परिगृहीतोत्र पाठःअपसरेति स्थाने उपरमेति । 'गोत्रम्' इति स्थाने 'शीलम्' इति । नायकं प्रति खानुरागं परमदाक्षिण्येन प्रकटयन्ती काचिदाह णि लहन्ति कहिअंसुणन्ति खलिअक्खरं ण जम्पन्ति । जाहिँ ण दिट्ठो सि तुमं ताओ चिअ सुहअ सुहिआओ ॥१८॥ [निद्रा लभन्ते कथितं शृण्वन्ति स्खलिताक्षरं न जल्पन्ति । ___ याभिनं दृष्टोऽसि त्वं ता एव सुभग सुखिताः ॥] निद्रां भजन्ति, कथितं शृण्वन्ति च गद्गदं न जल्पन्ति । न विलोकितोसि याभिः सुखितास्ता एव ननु सुभग ॥ १८॥ यास्त्वां न विलोकितवत्यस्तासामनिद्रा, अन्यमनस्कता जडतादयो व्याधयो वा न भवन्ति, अतएव ताः सुखिताः । अस्माकं तु त्वद्विलोकनादारभ्यैव निद्राभङ्गादयो जाताः। विलोकनमात्रादेव मादृशीनां मनो हरस्यहो ते सुभगतेति नायकचाटुः सुभगेल्यामन्त्रणसहकारेण ध्वन्यते । तव विलोकनमात्रादेव त्वदासक्तचेतसो वयमभूम, तत्फलमद्यावध्यस्माभिरौन्नियं विचित्ततादिखेदजनकमेव लब्धं न किञ्चिन्नितिजनकमत एक संप्रति सुखयास्मानिति भावावेदनं चरमं व्यङ्ग्यम् । दूती कस्याश्चिन्निरुपाधिकमनुरागमतिवैदग्ध्येन नायकं प्रति सोपालम्भमेवमाह बालअ तुमाइ दिण्णं कण्णे काऊण बोरसंघाडिम् । लज्जालुइणी वि वहू घरं गआ गामरच्छाए ॥ १९ ॥ [बालक त्वया दत्तां कर्णे कृत्वा बदरसंघाटीम् । लज्जालुरपि वधूगृहं गता ग्रामरथ्यया ॥] बालक भवता दत्तां कर्णे कृत्वा तु बदरसंघाटीम् । लजालुरपि वधूः सा प्रतियाता ग्रामरथ्यया भवनम् ॥ १९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446