Book Title: Gathasaptashati
Author(s): Nathuram Shastri
Publisher: Pandurang Javji
View full book text
________________
५ शतकम् ] संस्कृतगाथासप्तशती ।
२१९ गलितयौवनायाः स्तनाववलोक्य निजवाक्चातुर्य तां प्रति कौतुकं च प्रकटयितुं सपरिहासवैदग्ध्यं कश्चित्सहचरमाह
तुङ्गाणं विसेसनिरन्तराण [सरस]वणलद्धसोहाणम् । कअकज्जाण भडाण व थणाण पडणं वि रमणिजम् ॥२७॥ [तुङ्गयोर्विशेषनिरन्तरयोः [सरस]वणलब्धशोभयोः ।
कृतकार्ययोमैटयोरिव स्तनयोः पतनमपि रमणीयम् ॥] निविडनिरन्तरयोरुन्नतयोव्रणलब्धशोभयोः सरसम्।
कृतकार्ययोः पतनमपि रम्यं भटयोरिव स्तनयोः ॥२७॥ निबिडनिरन्तरयोः विशेषेण अन्योन्यलग्नयोः पीनत्वात् , उन्नतयोरुत्तुङ्गयोः काठिन्यात् , सरसं सुरतकेलौ सप्रमोदं व्रणैर्नखक्षतजातैलब्धशोभयोः, अत एव कृतकार्ययोः स्तनयोः, परस्परं बलादिसाम्यानिर्विशेषयोः, मानोन्नतयोः समरव्रणशोभितयोरत एव कृतकार्ययोः कृतवैरिपराजययोर्भटयोरिव योधपुरुषयोरिव पतनमपि रम्यं श्रेष्ठम् । त्वया यौवने भूरिसुखान्यनुभूतानि, कृतकार्यासीति गलितयौवनां प्रत्यभिव्यज्यते।
शृण्वती नायिकां प्रति निजसहृदयतां परिहासं च प्रकटयितुं कश्चित्प्रगल्भः कुचवर्णनाप्रस्तावमेवमाह
परिमलणसुहा गुरुआ अलद्धविवरा सलक्खणाहरणा । थणआ कवालाव व कस्स हिअए ण लग्गन्ति ॥२८॥ [परिमलनसुखा गुरुका अलब्धविवराः सलक्षणाभरणाः ।
स्तनकाः काव्यालापा इव कस्य हृदये न लगन्ति ॥ ] गुरवः परिमलनसुखा अलब्धविवराः सलक्षणाभरणाः।
न लगन्ति कस्य हृदये काव्यालापा इव स्तना एते ॥ २८॥ गुरवः पीनोन्नताः, परिमलनसुखा मर्दनसुखकारकाः, अलब्धविवराः परस्परमिलिततया नीरन्ध्राः, लक्षणैः श्रीफलादिसादृश्य-तिलचिह्नादिभिः आभरणैर्हारादिभूषणैश्च सहिताः, इमे स्तनाः काव्यालापा इव कस्य हृदये न लगन्ति, सर्वस्यापि हृदयं प्रीणयन्तीत्यर्थः । काव्यालापा अपि गुरवो गभीरार्थाः, परिमलनेन पुनः पुनर्विचारेणानन्दजनकाः, अलब्धविवरा दूषणावकाशरहिताः, शास्त्रीयलक्षणैरुपमाद्यलंकारैश्च सहिता भवन्ति । त्वत्कुचकलशशोभामालोक्यानुरक्तहृदयोस्मीति शृण्वती नायिकां प्रत्यभिव्यज्यते । सर्वानेव रमयसीति तां प्रति परिहासोपि च द्योत्यते । परिमलनमित्यत्र 'मल मल्ल' धारणे इति मलधातुः । धातूनामनेकार्थत्वादर्थसङ्गतिः, चुलुम्पतीत्या दिसंगृहीतं धात्वन्तरं वा । कुचपक्षे-परिमलनेन सुगन्धसंबन्धेन सुखाः इत्यप्यर्थः संभवेत् , परिमलशब्दाण्णिचा तद्रूपसिद्धेः । यद्वा धारणमेवार्थः, हृदये धारणेन सुखकारका इति पक्षद्वयेपि तदर्थोपपत्तेरित्यलं रसकथासु शुष्कविचारेण ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446