Book Title: Gathasaptashati
Author(s): Nathuram Shastri
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 311
________________ . २२६ काव्यमाला। [स्वेदार्टीकृतसर्वाङ्गी गोत्रग्रहणेन तस्य सुभगस्य । दूतीं प्रस्थापयन्ती (संदिशन्ती वा) तस्यैव गृहाङ्गणं प्राप्ता ॥] खेदातिसर्वाङ्गी गोत्रग्रहणेन तस्य सुभगस्य । तस्यैव भवनमाप्ता दूतीं प्रस्थापयन्ती सा ॥ ४०॥ दूतीं प्रस्थापयन्ती प्रेषयन्ती सा । गोत्रग्रहणेन नामग्रहणेन। खेदातिसर्वाङ्गी स्वेदेनार्दीकृतानि सर्वाण्यङ्गानि यस्याः एवंविधा सती तस्य भवनमेव गृहाङ्गणमेव प्राप्ता । नामनिर्देशसमये तन्नाम्ना तदङ्गसंस्थानस्य भावनावशात्सात्त्विकभावस्य खेदस्योद्गमो जात इत्यर्थः । अनेन सततं तद्गतचित्तायास्तस्या औत्सुक्यातिशयो व्यज्यते । दूती प्रेषयन्त्याः स्वयं गृहाङ्गणस्यैव प्राप्त्या वेद्यान्तरशून्यता सूच्यते । तया च मोहानुगुणा दशा व्यज्यते। सर्वाङ्गस्वेदवर्णनेन-नामग्रहणे नायकस्मरणात् समागमसमयतदङ्गावसक्तनिजसर्वाङ्गाणामध्यासस्तस्या जात इति सततं नायककर्मकभावनाविशेषो व्यज्यते । खेदाद्यनुभावैः, औत्सुक्यमोहादिभिः संचारिभिश्च नायकालम्बनाया नायिकानिष्टरतेः परिपोषो ध्वन्यत इत्यलम् । 'अत्यासक्त्या बाह्यमसंवेदयन्त्याः कस्याश्चिद्वृत्तं कापि सखीशिक्षार्थमाह' इति गङ्गाधरटीका । दुःसहया विरहवेदनया निजपर्यवसानं सूचयन्ती काचिद्दयितानयनाय सखीजनं • त्वरयितुं कुसुमशरनमस्कारभशीमेवमङ्गीकरोति जम्मन्तरे वि चलणं जीएण खु मअण तुज्झ अच्चिस्सम् । जइ तं पि तेण बाणेण विज्झसे जेण हं विज्झा ॥४१॥ [जन्मान्तरेऽपि चरणौ जीवेन खलु मदन तवार्चयिष्यामि । __ यदि तमपि तेन बाणेन विध्यसि येनाहं विद्धा ॥] जन्मान्तरेपि चरणौ जीवेन मदन तवार्चयिष्यामि । यदि तमपि तेन विध्यसि विद्धाहं येन विशिखेन ॥४१॥ हे मदन ! येन बाणेनाहं विद्धा, तेन यदि तमपि कान्तमपि विध्यति, तर्हि अस्मिन् जन्मन्येव किम् जन्मान्तरे अग्रिमे जन्मन्यपि, अन्यवस्तुद्वारा किं जीवेन निजजीवितद्वारा तव चरणावर्चयिष्यामि । येन बाणेनाहं विद्धा तेनेलनेन-तव पञ्चशरत्वेपि यो बाणो मद्धृदये यादृशीं पीडां चकार नान्यो बाणस्तथा कुर्यादत एव तेनैव बाणेन विध्य, तदन्येषां चतुर्णामन्यतमेन नेति, पीडातिशयस्यानुभवो ध्वन्यते । जीवेनार्चयिष्यामी. त्यनेन-विरहवेदनावसन्नसर्वाङ्याः प्रियनिवेदितचित्ताया मे निवेदनोचितं जीवितमेवावशिष्टमिति ध्वन्यते । जन्मान्तरेपीत्यनेन-वियोगानलदग्धदेहाया में समाप्तप्रायमिदं जीवितम् , अत एव तवेममुपकारं जन्मान्तरेपि मानयिष्यामीति मान्तिकं विरहदुःखं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446