Book Title: Gathasaptashati
Author(s): Nathuram Shastri
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 291
________________ २०६ काव्यमाला। निष्टं कर्तुं प्रभवेयुरित्याशयेन ग्रामनिकटेपि यवान् भक्षयतीत्यर्थः । कोडी सुतेन सह श्रमतीत्यनेन द्वयोः सूकरयोर्मध्ये गमनं सिंहस्यापि भयावहं किं पुनरन्यस्येति सूचनालोकानां गमननिवारणे तात्पर्य ध्वन्यते । विनापि कार्यमित्यनेन तृप्तापि सा यवक्षेत्रे भ्राम्यति, अत एव न तस्या आगमने समयनियमो नापि च निवृत्तेः संभावनेति आत्यन्तिको जनसंचाराभावः सूच्यते । क्रोडीति स्त्रीत्वद्योतकप्रत्ययेन पशुषु मातर्येव प्रेमाधिक्यात् 'द्वादशपुत्रायास्तस्याः कियन्तो वा सुता मातुः स्नेहेन तस्याः सहायतायै आगच्छेयुरिति न निश्चयः' इति भयप्रदर्शनातिशयो व्यज्यते । तथा च 'ग्रामनिकटवर्तिन्यपि यवक्षेत्रे न भवद्भिर्गन्तव्यम्' इति अन्यान्प्रति, 'जनसंचारशून्ये तस्मिनिर्भयं संगन्तव्यम्' इति चोपपतिं प्रति ध्वन्यते । सर्वसमर्थे ग्रामनायके तस्मिन्कृतप्रणयायास्तव तदभिसारादिषु न किञ्चिद्भय मिति नायिका सान्त्वयन्ती दूती अन्यापदेशेनाह हेलाकरग्गअहिअजलरिकं साअरं पआसन्तो। जअइ अणिग्गअवडवग्गिभरिअगगणो गणाहिबई ॥३॥ [हेलाकराग्राकृष्टजलरिक्तं सागरं प्रकाशयन् । __जयत्यनिग्रहबडवाग्निभृतगगनो गणाधिपतिः ॥1 हेलाकराग्रकर्षितजलरिक्तं सागरं कलयन् । जयतादविहतवडवाग्निभरितगगनो गणाधिपतिः॥३॥ हेलापुरस्सरं कराग्रेणाकर्षितं यजलं तेन रिक्तं सागरं कलयन् प्रकाशयन् सन् । जलनिग्रहात अविहतेन निष्प्रतिबन्धं प्रवृद्धेन बडवाग्निना भरितं गगनं येन ईदृशो गणाधिपतिविनायको जयतात् इति वाच्योर्थः । अनन्तरं तु गणस्य ग्राममण्डलस्याधिपतिरिति शब्दशक्तयुद्भवेनानुरणनेन "हेलयैव करेण ग्रामात्संग्राह्येण शुल्केन अग्रे प्रथममेव संपूर्णस्य द्रव्यसामर्थ्यस्यायत्तीकृतत्वाद् ग्रामे न कश्चित्तत्प्रतिद्वन्द्वी, अत एव अविहतं स ग्रामे व्याप्तप्रभावः” इति वक़्या दूत्या वैशिष्ट्यात् ग्रामनायके तस्मिन्ना हितस्नेहाया न ते लोकेभ्यो भयमित्यर्थान्तरं ध्वन्यते । जयतादिति आशीरर्थकेन तातडा 'अहं तस्याः प्रत्यहं शुभाशंसिनी' इत्यात्मपक्षपातोभिव्यज्यते। शृण्वन्तीं काञ्चन सुन्दरीमनुरञ्जयितुं स्वरसिकताप्रदर्शनाय चाटूक्तिविधया नायिकाकरकोमलताप्रशंसामन्यापदेशेनाह कश्चित् एएण चिअ कङ्केल्लि तुज्झ तं णत्थि जंण पजत्तम् । उवमिजइ जं तुह पल्लवेण वरकामिणीहत्थो ॥४॥ [एतेनैव ककेल्ले तव तन्नास्ति यन्न पर्याप्तम् । . उपमीयते यत्तव पल्लवेन वरकामिनीहस्तः ॥] Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446