________________
२०६
काव्यमाला।
निष्टं कर्तुं प्रभवेयुरित्याशयेन ग्रामनिकटेपि यवान् भक्षयतीत्यर्थः । कोडी सुतेन सह श्रमतीत्यनेन द्वयोः सूकरयोर्मध्ये गमनं सिंहस्यापि भयावहं किं पुनरन्यस्येति सूचनालोकानां गमननिवारणे तात्पर्य ध्वन्यते । विनापि कार्यमित्यनेन तृप्तापि सा यवक्षेत्रे भ्राम्यति, अत एव न तस्या आगमने समयनियमो नापि च निवृत्तेः संभावनेति आत्यन्तिको जनसंचाराभावः सूच्यते । क्रोडीति स्त्रीत्वद्योतकप्रत्ययेन पशुषु मातर्येव प्रेमाधिक्यात् 'द्वादशपुत्रायास्तस्याः कियन्तो वा सुता मातुः स्नेहेन तस्याः सहायतायै आगच्छेयुरिति न निश्चयः' इति भयप्रदर्शनातिशयो व्यज्यते । तथा च 'ग्रामनिकटवर्तिन्यपि यवक्षेत्रे न भवद्भिर्गन्तव्यम्' इति अन्यान्प्रति, 'जनसंचारशून्ये तस्मिनिर्भयं संगन्तव्यम्' इति चोपपतिं प्रति ध्वन्यते ।
सर्वसमर्थे ग्रामनायके तस्मिन्कृतप्रणयायास्तव तदभिसारादिषु न किञ्चिद्भय मिति नायिका सान्त्वयन्ती दूती अन्यापदेशेनाह
हेलाकरग्गअहिअजलरिकं साअरं पआसन्तो। जअइ अणिग्गअवडवग्गिभरिअगगणो गणाहिबई ॥३॥
[हेलाकराग्राकृष्टजलरिक्तं सागरं प्रकाशयन् । __जयत्यनिग्रहबडवाग्निभृतगगनो गणाधिपतिः ॥1 हेलाकराग्रकर्षितजलरिक्तं सागरं कलयन् ।
जयतादविहतवडवाग्निभरितगगनो गणाधिपतिः॥३॥ हेलापुरस्सरं कराग्रेणाकर्षितं यजलं तेन रिक्तं सागरं कलयन् प्रकाशयन् सन् । जलनिग्रहात अविहतेन निष्प्रतिबन्धं प्रवृद्धेन बडवाग्निना भरितं गगनं येन ईदृशो गणाधिपतिविनायको जयतात् इति वाच्योर्थः । अनन्तरं तु गणस्य ग्राममण्डलस्याधिपतिरिति शब्दशक्तयुद्भवेनानुरणनेन "हेलयैव करेण ग्रामात्संग्राह्येण शुल्केन अग्रे प्रथममेव संपूर्णस्य द्रव्यसामर्थ्यस्यायत्तीकृतत्वाद् ग्रामे न कश्चित्तत्प्रतिद्वन्द्वी, अत एव अविहतं स ग्रामे व्याप्तप्रभावः” इति वक़्या दूत्या वैशिष्ट्यात् ग्रामनायके तस्मिन्ना हितस्नेहाया न ते लोकेभ्यो भयमित्यर्थान्तरं ध्वन्यते । जयतादिति आशीरर्थकेन तातडा 'अहं तस्याः प्रत्यहं शुभाशंसिनी' इत्यात्मपक्षपातोभिव्यज्यते।
शृण्वन्तीं काञ्चन सुन्दरीमनुरञ्जयितुं स्वरसिकताप्रदर्शनाय चाटूक्तिविधया नायिकाकरकोमलताप्रशंसामन्यापदेशेनाह कश्चित्
एएण चिअ कङ्केल्लि तुज्झ तं णत्थि जंण पजत्तम् । उवमिजइ जं तुह पल्लवेण वरकामिणीहत्थो ॥४॥
[एतेनैव ककेल्ले तव तन्नास्ति यन्न पर्याप्तम् । . उपमीयते यत्तव पल्लवेन वरकामिनीहस्तः ॥]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org