________________
५ शतकम् ]
संस्कृतगाथासप्तशती।
पञ्चमं शतकम् । प्रियतमापराधैर्मुहुर्मुहुः खेदिता मानिनी हृदयामन्त्रणव्याजेन प्रियतममुपालभते
डज्झसि डझसु कट्टसि कसु अह फुडसि हिअअ ता फुडसु । तह वि परिसेसिओ चिअ सोहु मए गलिअसब्भावो ॥१॥ [दह्यसे दह्यस्व कथ्यसे क्वथ्यस्व अथ स्फुटसि हृदय तत्स्फुट ।
तथापि परिशेषित एव स खलु मया गलितसद्भावः ॥] दह्यस्व दासे चेत्स्फुटसि स्फुट पच्यसेथ पच्यस्व ।
हृदय गलितसद्भावः परिशेषित एव स खलु मया ॥१॥ हे हृदय ! विरहे यदि त्वं दह्यसे अनलज्वालामिवानुभवसि तर्हि दह्यस्व । पच्यसे पुटपाकस्येव वेदनामनुभवसि तर्हि पच्यख । दाहक्काथोत्तरमथ स्फुटसि विदीर्यसे तर्हि स्फुट । दाह-क्वाथ-स्फोटानां क्रमिकत्वमन्वयेन योजनीयम् । दह्यसे इत्यादिषु कर्मणः कर्तृतया यगात्मनेपदे । यः खलु तादृशमनिर्वचनीयं क्लेशं साहयामास स किल गलितः सद्भावः स्नेहहतको मया परिशेषित एव परिसमापित एव । प्रियतमस्नेहवशाद् हृदय. दाहमनुभवन्त्या अपि स्नेहपरित्यागोक्तेर्बाधितत्वात्स्नेहाभावस्याभासरूपतया आक्षेपालङ्कारः । 'निषेधाभासमाक्षेपं बुधाः केचन मन्वते । तथा च त्वद्तस्नेहेनैवाहं हृदयदाहादिदारुणदुःखमनुभवामि, अत एव स स्नेहो निःशेषयितुमिष्टोपि मया न तथा पार्यते, त्वं तु तथापि विप्रियकरणान्न निवर्तसे इति प्रियतमं प्रति सरोषातिशयमुपालम्भोभिव्यज्यते । 'प्रणामकाडिणी मानिनी नायकानुरक्तं स्वहृदयमाह' इति गङ्गाधरावतरणम् । अत्र परिशेषित इत्यस्य 'परिच्छन्नो निर्णीतः' इत्यर्थस्तु गङ्गाधराभ्यूहितोऽक्षरैरनवसेय एव । तन्मते गलितः सद्भावो यस्य, स दयितो मया निर्णीत इत्यर्थः परिकल्पनीयो भवेत् ।
शृण्वन्तमुपपतिं प्रति ‘यवक्षेत्रं संकेतस्थानम्' इति सूचयन्ती काचिदन्येषां तत्र गमने भयप्रदर्शनार्थमाह
दळूण रुन्दतुण्डग्गणिग्गअंणिअसुअस्स दाढग्गम् । भोण्डी विणावि कजेण गामणिअडे जवे चरइ ॥२॥
[दृष्ट्वा विशालतुण्डाग्रनिर्गतं निजसुतस्य दंष्ट्राग्रम् । - सूकरी विनापि कार्येण ग्रामनिकटे यवांश्चरति ॥] दृष्टा विशालतुण्डाग्रनिर्गतं निजसुतस्य दंष्ट्राग्रम् ।
कोडी विनापि कार्य चरति यवान्ग्रामसंनिधानेपि ॥२॥ विशालं यत्तुण्डं मुखं तदने निर्गतम् । क्रोडी सूकरी। 'क्रोडो भूदार इत्यपि' इलमरः । कार्य विनापि आवश्यकता विनापि । सुतस्य विशालदंष्ट्राग्राद्भयभीता न केचिद
सं. गा. १८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org