________________
२०४
काव्यमाला |
पथिकस्य हरति तापं ग्रीष्मे मध्याह्ननिर्गतस्यापि । हृदयस्थितजायामुखचन्द्रज्योत्स्ना जलप्रवाहोऽयम् ॥ ९९ ॥
अहर्निशं ध्यानवशात् हृदये स्थितो यो जायामुखचन्द्रः, तस्य ज्योत्स्नाजलप्रवाहः । सुधांशुकिरणेभ्यो यदिदं चन्द्रकान्तमणिषु रसप्रस्रवणं भवति तदभिषेकाद् ग्रीष्मे यथा न भवति संतापः, प्रत्युत काचिदनिर्वचनीया निरृतिः संपद्यते, तथैव मध्याह्ने गृहगमनार्थ पथि चलतां पथिकानामपि प्रियतमामुखस्मरणादित्याशयः । जायापदेन दम्पत्योः खाभाविकः प्रेमबन्धः परामृश्यते, तेन च नायिकालम्बनाया रतेरतिशयो ध्वन्यते । 'कथमेताशे ग्रीष्मे मम प्रिय आगमिष्यतीति चिन्तयन्तीं नायिकां सख्याह' इति गङ्गाधरः । अनवसरे प्रार्थिताया नायिकाया भ्रूभङ्गीमभिवीक्ष्य विमनायमानं नायकं विनोदयन्ती दूती मधुरमाह
भण कोण रुस्सह जणो पत्थिञ्जन्तो अएसकालम्मि । रतिवाडा रुअन्तं पिअं वि पुत्तं सवई माआ ॥ १०० ॥
[ भण को न रुष्यति जनः प्रार्थ्यमानोऽदेशकाले । रतिव्यापृता रुदन्तं प्रियमपि पुत्रं शपते माता ॥ ]
वद को न कुप्यति जनो निवेद्यमानो हादेशकाले तु । रतिसंगता रुदन्तं प्रियमपि शपते सुतं माता ॥ १०० ॥
देशयुक्तः कालो देशकालः न देशकालोऽदेशकालस्तस्मिन्निति मध्यमपदलोपिसमासो मूलैकवचनानुरोधात् । अस्थाने असमये चेत्यर्थः । शपते क्रोधेनाक्रुश्यति । प्रियमपीत्यनेन अनवसर मालोक्यैव तया प्रत्याख्यातोसि न पुनरनुरागभङ्गादिति नायकं प्रति सूच्यते ।
- उपसंहरति
एत्थ उत्थं विरमइ गाहाणं सअं सहावरमणिजम् । सोऊण जंण लग्गइ हिअए महुरत्तणेण अमअं पि ॥ १०१ ॥
[ अत्र चतुर्थ विरमति गाथानां शतं स्वभावरमणीयम् । श्रुत्वा यन्न लगति हृदये मधुरत्वेनामृतमपि ॥ ]
अत्र चतुर्थ विरमति निसर्गरम्यं शतं हि गाथानाम् । मधुरत्वेनामृतमपि यच्छ्रुत्वा नो लगति हृदये ॥ १०१ ॥
शतं शतकम् । यच्छ्रुत्वा अमृतमपि मधुरत्वेन हृदये स्थानं न लभत इत्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org