SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ संस्कृतगाथासप्तशती । धन्यास्ता महिला या दयितं स्वप्नेपि वीक्षन्ते । तेन विना मम निद्वैव नैति का प्रेक्षते स्वप्नम् ॥ ९७ ॥ ४ शतकम् ] नैति नागच्छति । दयितदर्शनं विनैव स्वस्थानां यासां निद्रा आयाति, प्रियप्रणयरहितास्ता न धन्या इति स्तुतिव्याजेन निन्दाप्रदर्शनाद्व्याजस्तुतिर्वाच्योऽलङ्कारः । तेन च ताः अधन्याः प्रियप्रणयशालिनी अहं तु धन्येति व्यतिरेकालङ्कारो ध्वन्यते । पर्यन्ते तु तद्विरहिण्या मम स्वप्नेपि तद्दर्शनं सुदुर्लभमिति प्रियतमरतिपरिपोषाद्विप्रलम्भध्वनिरियलम् । लावण्यशालिनीमपि सारल्याद्वन्यवेषभूषितां कांचन सुन्दरीमवधीरणदृशा पश्यन्तं नायकं प्रतिबोधयितुं दूती अन्यापदेशेनाह २०३ परिरद्धकणअकुण्डलगण्डत्थलमणहरेसु सवणेसु । अण्णअसमअवसेण अ पहिरजइ तालवेण्टजुअम् ॥ ९८ ॥ [ परिरब्धकनककुण्डलगण्डस्थलमनोहरयोः श्रवणयोः । अन्य समयवशेन [च] परिधियते तालवृन्तयुगम् ॥ ] परिरब्धकनककुण्डलगण्डस्थलमञ्जनोः श्रवसोः । अपि समयान्तरवशतो ध्रियते किल तालवृन्तयुगम् ॥ ९८ ॥ परिरब्धे चुम्बिते स्पृष्टे इति यावत् कनककुण्डले येन ईदृशे गण्डस्थले मञ्जुनोः शोभाशालिनोः । श्रवसोः कर्णयोरपि समयान्तरवशात् तालवृन्तयुगं तालपत्रकर्णभूषद्वयं ध्रियते । परिरब्धेत्यनेन कपोलयोर्निबिड : स्पर्शो लक्ष्यते, तेन च उत्तुङ्गमांसल - तया नायिकाकपोलयोः सौन्दर्यं ध्वन्यते । तथा च कनककुण्डलमण्डितयोर्निसर्गसुन्दरीकपोलयोर्यथा समयान्तरे तालपत्रताटङ्कधारणेनापि न परिहीयते शोभा, तथैव नेयं सरलवेषभूषिता निसर्गसुन्दरी तिरस्कारदृशा विलोकनीयेति दूत्याभिद्योत्यते । अस्यां गाथायां 'तत्थवि' इति पाठः, 'तत्रापि' इति च्छायाकरणं च केषांचि - दविचार एव । तत्रापि श्रवसोरिति विधेयाविमर्शात् [ याभ्यां कनककुण्डले परिरब्धे तयोः श्रवसोरिति व्यस्तपाठ एव तत्स्वारस्यात् ] । 'पूर्वं समृद्धस्य कालवशेन गलितविभवस्य कस्यापि मनःसमाधानाय दूत्यन्यापदेशेनाह' इति गङ्गाधरावतरणम् । प्रियतमासमागमसमुत्कण्ठमानानां प्रवासिनामुत्साहोत्कण्ठावशान्मध्याह्नतापोपि न प्रतिबन्धको भवतीति निजसहृदयतां सूचयन्कश्चिन्नागरिकः सहचरमाह मज्झ पत्थि अस्स वि गिम्हे पहिअस्स हरइ संतावम् । हिअअट्ठिअजाआमुहमअङ्कजोहाजलप्पवहो ॥ ९९ ॥ [ मध्याह्नप्रस्थितस्यापि ग्रीष्मे पथिकस्य हरति संतापम् । हृदयस्थितजायामुखमृगाङ्कज्योत्स्नाजलप्रवाहः ॥ ] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001858
Book TitleGathasaptashati
Original Sutra AuthorN/A
AuthorNathuram Shastri
PublisherPandurang Javji
Publication Year1993
Total Pages446
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Literature, & Kavya
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy