________________
२०२
. काव्यमाला।
[आया नीलक कभृतोर्वरितं विभाति स्तनपृष्ठम् ।
जलभृतजलधरान्तरदरोद्गतं चन्द्रबिम्बमिव ॥] . भाति सुतनुकुचपृष्ठं सुनीलकञ्चकभृतोर्वरितम् । - जलभृतसलिलधरान्तरद्रोद्गतं चन्द्रबिम्बमिव ॥ ९५ ॥
सुन्दरे नीलक के भृतं च उर्वरितं च । नीलकञ्चलिकामापूर्य महत्त्वादुर्वरितमित्यर्थः। सुतनोः कुचमण्डलम् , जलभृततया सान्द्रश्यामस्य सलिलधरस्य मेघस्य अन्तरात् दरो. द्गतम् ईषन्निर्गतं चन्द्रमण्डलमिव भाति । अनया चन्द्रोपमया, परमाहादजनकगौरमञ्जलशरीरयष्टिः सा त्वामधैवाभिसरिष्यति, पश्य ते भाग्यवैभवमिति वस्तु दूत्या नायकं प्रत्यभिद्योत्यते।
प्रवासाय कृतोद्यम वल्लभं निवारयितुं काचिद्वसन्तसमयस्य पथिकजनभयहेतुतां वर्णयति
राअविरुद्धं व कहं पहिओ पहिअस्स साहइ ससङ्कम् । जत्तो अम्बाण दलं तत्तो दरणिग्गअंकिं पि ॥ ९६ ॥ [राजविरुद्धामपि कथां पथिकः पथिकस्य कथयति सशङ्कम् ।
यत आम्राणां दलं तत ईषन्निर्गतं किमपि ॥] पथिकः पथिकस्य कथां राजविरुद्धामिवाह साशङ्कम्।
यत आम्राणां पर्ण तत ईषन्निर्गतं किमपि ॥ ९६ ॥ आम्रवृक्षाणां यतो यस्मात् स्थानात् पत्रं निर्गच्छति ततः । ईषत्किञ्चिदृश्यमानं किमपि निर्गतमिति राजविरुद्धां कथामिव सभयशवं पथिकः पथिकस्याह कथयति । अङ्कुर इत्यनुक्त्वा किमपीति कथनेन नामग्रहणेपि भयोत्पादात्पथिकस्य भयाकुलता बोयते । राजविरुद्धकथाजल्पने यथा वक्तुर्भयं भवति तथा पथिकस्यापि आम्राङ्कुरकथाकथने भीतिरिति भावः । ईषन्निर्गतमित्यनेन वसन्तविजृम्भणसूचिका यावदाम्राणां मञ्जरी समग्रं न निर्गच्छति तावदेव प्रवासः समापनीय इति पथिकं प्रत्यभिव्यज्यते । तथा च वसन्तसमये प्रवासं गतस्य तवापि सेयं दशा भाविनीति परिहर गमनमिति नायकं प्रति नायिकयाभिव्यज्यते । अस्यां गाथायां 'राअविरुद्धं व' इत्यस्य 'राजविरुद्धामपि' इति गङ्गाधरच्छाया तु अनक्षरार्थत्वाद्विच्छायैव ।
खप्ने प्रियसंदर्शनेन विनोदयन्ति विरहवेदनां वनिताः प्रायश इति विरहविनोदनप्र. स्तावे सखीभिरुक्ता काचिदात्मनोऽनुरागं प्रथयन्याह--
धण्णा ता महिलाओ जा दइअं सिविणए वि पेच्छन्ति । जिद्द विअ तेण विणा ण एइ का पेच्छए सिविणम् ॥९७॥ [धन्यास्ता महिला या दयितं स्वप्नेऽपि प्रेक्षन्ते । निद्रैव तेन विना नैति का प्रेक्षते स्वप्नम् ॥]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org