________________
४ शतकम् ]
संस्कृतगाथासप्तशती ।
शृण्वन्तं निजमुपपतिं प्ररोचयितुं काचित्तं प्रत्यनुरागातिशयं सूचयन्ती व्यपदेशेनाहजेत्तिअमेत्ता रच्छा णिअम्ब कह तेत्तिओ ण जाओसि । जं छिप्पर गुरुअणलजिओ सरन्तो वि सो सुहओ ॥ ९३ ॥ [ यावत्प्रमाणा रथ्या नितम्ब कथं तावन्न जातोऽसि । येन स्पृश्यते गुरुजनलजापसृतोऽपि स सुभगः ॥ ] यावन्मात्रा रथ्या नितम्ब तावान्कथं न जातोसि । यत्स्पृश्यते हि गुरुजनलज्जापसृतोपि सुभगोसौ ॥ ९३ ॥ यावत्परिमाणं यस्या इति यावन्मात्रा । प्रमाणे मात्रच् । यत् येन, गुरुजनानां लज्जावशाद् रथ्यायाः प्रान्तभागेन अपसृतोप्यसौ स्पृश्यते । अस्मान्परिहृत्याऽपसृतस्यापि तव स्पर्शमात्रमपि अस्माभिः सबहुमानमाशास्यते, पश्य ते सौभाग्यमिति सुभगपदसहकारेण ध्वन्यते । हस्तादिना स्पर्शे सति लोकानां परिज्ञानं स्यात्, जनसंबाधे नितम्बस्पर्शे तु न कस्यचित्संदेहः प्रत्युतानन्दावाप्तिरित्याशयः ।
संकेतनिकेतनीकृते नास्मिंस्तृणलतागृहे त्वमागतः इति कंचन कामुकं सूचयन्ती दूती तस्य जनसंचारशून्यतां वर्णयति---
मरगअसूई विद्धं व मोत्तिअं पिअर आअअग्गीओ । मोरो पाउस आले तणग्गलग्गं उअअबिन्दुम् ॥ ९४ ॥ [ मरकतसूचीविद्धमिव मौक्तिकं पिबत्यायतग्रीवः । मयूरः प्रावृङ्काले तृणामलग्नमुदकबिन्दुम् ॥ ] मौक्तिकमायतकण्ठो मरकतसूचीनिविद्धमिव पिबति । प्रावृङ्काले बर्हीीं तृणाग्रसंगतमुदकबिन्दुम् ॥ ९४ ॥
बहीं मयूरः प्रावृट्काले मरकतसूचीनिविद्धं हरितवर्णस्य गारुत्मतमणेः सूच्या तनुशलाकया निविद्धं कृतच्छिद्रतया प्रोतं मौक्तिकमिव स्थितं तृणाग्रसंगतं जलबिन्दुम् आयतकण्ठः सन् पिवति । पानसमये जलबिन्दुपर्यन्तं चचुसंचालनार्थं लम्बायमानग्रीवो भवतीत्यर्थः। वर्षाकाले जलबिन्दुसुन्दरतृणपटलशोभास्वभावस्य पानकाले मयूरखभावस्य च वर्णनात्स्वभावोक्तिः । वृष्टेरनन्तरं तृणाग्रलग्नो जलबिन्दुर्मयूरेण पीयत इत्यनेन स्थानस्य जनसंचारशून्यता सूच्यते । ( जनसंचारे सति कम्पनेन तृणाग्रभागे जलबिन्दो - रवस्थितिर्न स्यात् ] । तेन त्वं संकेतस्थानेस्मिन्नागत इति दूत्या ध्वन्यते । मरकतसूच्या मौक्तिकवेधवत् दुष्प्रापया तया नायिकया तव समागमोऽसंभावित एवेति दूती सूचयतीति केचित् । 'तृणलतागृहं संकेतस्थानमिति जारं श्रावयन्ती काप्याह' इति गङ्गाधरः । अभिसारसमये कञ्चुकपरिधानोत्तरं जायमानां नायिकालावण्यशोभां कामुकमनस्तोपाय दूती वर्णयति---
अजाइ गीलकचुअभरिउव्वरिअं विहाइ थणवट्टम् । जलभरिअजल हरन्तरदरुग्गअं चन्दविम्ब व ॥ ९५ ॥
२०१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org