SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ काव्यमाला । आत्मनो विपरीतरतपाटवप्रकटनेन शृण्वन्तं कान्तमुत्कण्ठयन्ती काचित्सखीमाह-तड विणिहिअग्गहत्था वारितरङ्गेहिं घोलिरणिअम्बा । सालूरी पडिविम्बे पुरिसाअन्तिव पडिहाइ ॥ ९१ ॥ [ तटविनिहिताग्रहस्ता वारितरङ्गैघूर्णनशीलनितम्बा । शालूरी प्रतिबिम्बे पुरुषायमाणेव प्रतिभाति ॥ ] तटविनिहिताग्रहस्ता वारितरङ्गैर्भ्रमन्नितम्बेयम् । शालूरी प्रतिबिम्बे विभाति पुरुषायमाणेव ॥ ९१ ॥ भ्रमन्नितस्ततः प्रचलन्नितम्बो यस्याः सा । शालूरी मण्डूकी, 'भेके मण्डूकवर्षा भूशावरप्लवदर्दुराः' इत्यमरः । प्रतिबिम्बे जलान्तः स्वीयप्रतिच्छायाया उपरि, विपरीत रतोचितं पुरुषायितं कुर्वाणेव प्रतिभाति । ' अस्मिन्बन्धेहमपि नितम्ब परिचालन चतुराम्मि, येन भवेत्ते मनस्तोष:' इति शृण्वन्तं कान्तं प्रत्यभिव्यज्यते । 'आत्मनो विपरीतरताभिलाषं सूचयन्ती नायिका कान्तमाह' इति गङ्गाधरावतरणम् । २०० कुसुम्भवाटिकायां कृतसुरता काचिदात्मनः सुरतचिह्नगोपनार्थमाह-सिकरिअमणिअमुहवेविआइँ धुअहत्थसिज्ञ्जिअवाई । सिक्खन्तु वोडीओ कुसुम्भ तुम्ह प्पसाएण ॥ ९२ ॥ [ सीत्कृत मणितमुखवेपितानि धुतहस्तशिञ्जितव्यानि । शिक्षन्तु कुमार्यः कुसुम्भ युष्मत्प्रसादेन ॥ ] सीत्कृतमुखपरिवेपितमणितविधुतहस्तशिञ्जितव्यानि । शिक्षन्तां कुलबालाः कुसुम्भ युष्मत्प्रसादेन ॥ ९२ ॥ सीत्कृतं सीत्कारः, मुखपरिवेषितं 'स्फुरितकादिषु' चुम्बनविशेषेषु अधराद्यपसारणार्थं मुखस्य परिचालनम् । 'वदने प्रवेशितं चौष्ठं मनागपत्रपावग्रहीतुमिच्छन्ती स्पन्दयति स्वमोष्ठं नोत्तरमुत्सहत इति स्फुरितकम्' इति वात्स्यायनः । मणितं रते कूजितविशेषः । विधुतहस्तं यथा स्यात्तथा शिञ्जितव्यं भूषणझणत्कारः । एतानि सीत्कृतादीनि नखक्षताधरखण्डनमुष्ट्याघातैरपि भवन्ति, कण्टकवेधेनापि च भवन्ति । एवं च सीत्कारादयो मम कुसुम्भकण्टकक्षताजाताः, न तु सुरतेनेति नायिकाकृतं वृत्तसुरतगोपनं ध्वन्यते । मूलस्थितस्य 'बोडही ' शब्दस्य कुमारी तरुणी वेति संदेहग्रस्तेव गङ्गाधरादिकृता छाया । कुलबालापदेन तु तदुभयं संगृह्यते । स्वभावतो लज्जाशालिनीनां कुलललनानां लज्जाप्रतिद्वन्द्वि सीत्कारादिकं को वा शिक्षयेदतो हे कुसुम्भ भवत एवायं प्रसादः । एवं च नाहं सुरतकाले जायमानमेवंविधं वैयात्यं जानामि, कुलजत्वादिति खस्य सारल्यं सूच्यते । 'शिक्षन्तु' इति गङ्गाधरटीकापुस्तकेषूपलभ्यमानः परस्मैपदपाठस्तु व्याकरणविरुद्ध एव । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001858
Book TitleGathasaptashati
Original Sutra AuthorN/A
AuthorNathuram Shastri
PublisherPandurang Javji
Publication Year1993
Total Pages446
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Literature, & Kavya
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy