________________
४ शतकम् ] संस्कृतगाथासप्तशती।
१९९ तनयामनिमिषाः सन्तः प्रेक्षन्ते । तथा च-अस्माकं मध्ये कस्य वा भवेल्लाभसौभाग्यामिति यथा तेऽचिन्तयंस्तथैतेऽपीति पथिकौत्सुक्येन हालिकसुतायाः सौन्दर्यातिशयो ध्वन्यते। 'हलिकसुतामपि सतृष्णं पश्यतामेषां गृहे वासो न देयः' इति सुहृदं प्रति नागरिकस्योक्तिरिति केचित् । कलहान्तरितायास्तस्याः शीघ्रमेव मनोवेदनाऽपनेयेति दूती नायकमाह
कस्स भरिसि त्ति भणिए को मे अत्थि त्ति जम्पमाणाए । उविग्गरोइरीए अम्हे वि रुआविआ तीए ॥ ८९ ॥ [कस्य सरसीति भणिते को मेऽस्तीति जल्पमानया।
उद्विग्नरोदनशीलया वयमपि रोदितास्तया ॥] कं स्मरसीति निगदिते कः किल मेऽस्तीति जल्पन्त्या ।
उद्विग्नं च रुदत्या वयमपि बहु रोदिता हि तया ॥ ८९ ॥ मम कः स्नेहानुवृत्तिपरोऽस्तीति जल्पन्त्या। प्रियतमो यदि ममाभविष्यत्तर्हि न मामेवमखेदयिष्यदिति भावः । सोद्वेगं रोदनेन प्रियतमप्रणयविच्छेदस्मरणाद्दुःखातिशयो जात इत्याकूतम् । तस्या रोदनेन अहमपि अरोदमिति भावः । तथा च निरन्तरमपराधैस्तव प्रणयभङ्गानुमानानिरतिशयं खिन्ना सा त्वरितमनुनेयेति नायकं प्रत्यभिव्यज्यते। बहुविधेनाप्यनुनयेन मानमत्यजन्ती नायिका सखी सरोषमाह
पाअपडिअं अहव्वे किं दाणि ण उट्ठवेसि भत्तारम् । एअं विअ अवसाणं दूरं पि गअस्स पेम्मस्स ॥ ९०॥ [पादपतितमभव्ये किमिदानी नोस्थापयसि भर्तारम् ।
एतदेवावसानं दूरमपि गतस्य प्रेम्णः ॥] पदयोः पतितमभव्ये नोत्थापयसि प्रियं नु किमिदानीम् ।
अवसानमेतदेव प्रेम्णो दूरं गतस्यापि ॥ ९० ॥ अभव्ये इति सखी प्रति सप्रणयरोषं संबोधनम् । दूरं गतस्यापि अतिप्रवृद्धस्यामि प्रणयस्य एतदेव पदप्रणामरूपमेव अवसानं चरमसीमा । एवं च, इदानीमपि यद्यनुनयं न ग्रहीष्यसि तर्हि प्रियतमस्य द्वेष्या भविष्यसीति सूच्यते । दूरं गतस्यापीत्यपिना 'अतिमानं मानं कुर्वती त्वं प्रणयस्य चरमसीमानं परीक्षसे, ततश्च भवदभीष्टा सेयं प्रेम्णः परा काष्ठैवेति' नायिकायाः प्रेमातिशयकामना सूच्यते । इह भर्तारमितिस्थाने प्रियमि. तिपदं तु ‘एवं त्वत्प्रणयपरिपालनेनायमपि तेऽवश्यं प्रीतिपात्रतामहति, ततश्चैतादृशं प्रियमपि प्रणमन्तं किं नोत्थापयसि' इति भर्तृपदापेक्षयाधिकमेव खारस्यं पुष्णातीति सहृदयाः परीक्षेरन् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org