________________
१९८
अवलम्बध्वं भ्राम्यति नेयं ग्रहलङ्घिता न शङ्कध्वम् । आकस्मिकघनर सितोद्धान्तत्रस्तान्तरा पथिकजाया ॥ ८६ ॥ भूतादिग्रहैः लङ्घिता आक्रान्ता इयं न भ्राम्यति । इमामवलम्बध्वम् । अवलम्बनदानेन गमनान्निवारयत । न शङ्कध्वम् उन्मादशङ्कया नोद्विजत । आकस्मिकं यद् घनरसितं मेघगर्जितं तेनोद्धान्तं त्रस्तं च अन्तरं मानसं यस्याः सा । सहसा मेघगर्जनादेव तावानुत्कण्ठोदयः, प्रावृषि निरन्तरं वर्षत्सु वारिदेषु तु न जाने किं भावीति प्रोषितपतिकाया विरहवेदनातिशयो द्योत्यते । 'हित्यम्' त्रस्तम् ।
नायिकाया गुणोत्कर्षं सूचयन्ती सखी बहुवलभाप्रणयिनं नायकं मधुकर व्यपदेशेनाहकेसररअविच्छड्डे मअरन्दो होइ जेन्तिओ कमले ।
जइ भमर तेन्तिओ अण्णहिंपि ता सोहसि भमन्तो ॥ ८७ ॥ [ केसररजःसमूहे मकरन्दो भवति यावान्कमले । यदि भ्रमर तावानन्यत्रापि तदा शोभसे भ्रमन् ॥ ] केसररजःसमूहे मकरन्दो भवति सरसिजे यावान् । अन्यत्रापि हि तावांस्तदा भ्रमन् शोभसे भ्रमर ॥ ८७ ॥
काव्यमाला |
सरसिजे, केसररजसां किञ्जल्कपरागाणां समूहे । 'किञ्जल्कः केसरोऽस्त्रियाम्' इत्यमरः । उभयत्राप्याधारतया सप्तमी । कमलगत केसररजःसमूहे इति तात्पर्यम् । यावान् मकरन्दो रसो भवति, अन्यत्रापि पुष्पे तावानेव मकरन्दो भवेत्तदा भ्रमन् शोभसे । भ्रमरेतिसंबोधनेन रसिकतया नानापुष्पेषु भ्रमणं यथा तत्खभावस्तथा तवापि नानाविधस्त्रीलम्पटत्वमित्याक्षेपः । तथा च न तावानन्यमहिलासु गुणोत्कर्षो यावान्मत्सख्याम्, तथापि त्वमन्यत्र व्रजसि । अहो ते गुणपरिचयवैमुख्यमित्युपालम्भो ध्वन्यते । 'खस्य गुणोत्कर्षं ख्यापयन्ती काचित्कान्तमाह' इति गङ्गाधरः । खमुखेन खगुणवर्णने न दाक्षिण्यमिति मन्मतिः ।
स्वभावसुन्दराणां विकृतिरपि श्रियमेव तनोति न वैरूप्यमिति निदर्शयन्कोपि सह
चरमाह
पेच्छन्ति अणिमिसच्छा पहिआ हलिअस्स पिट्ठपण्डुरिअम् । धूअं दुद्धसमुडुत्तरन्तलच्छि विअ सअह्ना ॥ ८८ ॥ [ प्रेक्षन्तेऽनिमिषाक्षाः पथिका हलिकस्य पिष्टपाण्डुरिताम् । दुहितरं दुग्धसमुद्रोत्तरलक्ष्मीमिव सतृष्णाः ॥ ] प्रेक्षन्तेऽनिमिषाक्षाः पथिका हलिकस्य पिष्टपाण्डुरिताम् । तनयां दुग्धसमुद्रोत्तरत्सुलक्ष्मीमिव सतृष्णाः ॥ ८८ ॥ अनिमिषनयना देवा दुग्धसमुद्रादुत्तरन्तीमत एव पाण्डुरितां लक्ष्मीं यथापश्यन् तथा सतृष्णाः सलालसाः पथिकाः पिष्टेन तण्डुल- गोधूमादिचूर्णेन पाण्डुरितां हालिकस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org