________________
४ शतकम् ]
संस्कृतगाथासप्तशती ।
१९७
परेऽस्ति कः कोपः ।
दयिते प्रसीद, कुपिता का, सुतनु त्वम्, कोस्ति परो, नाथ त्वम्, किमिति हि मम दुरितशक्तिरियम् ॥८४॥ परे अपरस्मिन् स्नेहसंबन्धरहिते इति यावत् । मम दुरितानामपुण्यानामियं शक्तियत्त्वं खोपि परः संवृत्त इति भावः । मे अपुण्यानामित्यनेन, ताः किल पुण्यवत्यो यासु त्वमनुरज्यसीति दयितश्लाघा चोपालम्भश्च सूच्यते । तथाच — सपत्नी स्नेहसकतया पर इव मयि व्यवहर सीत्युपालम्भेन नायिकायाः सर्वैर्यः प्रणयकोपोऽभिव्यज्यते । दयिते इति संबोधनेन 'त्वं मे अत्यन्तं प्रेयसी, अत एव त्वत्प्रसादं विना न मे मनस्तोष:' इति प्रियतमेन यथा निजप्रणयातिशयः सूच्यते तथा 'परः कोऽस्ति ?' इति प्रश्नस्योत्तरे 'नाथ त्वम्' इति संबोधयन्त्या तयापि 'प्रियपत्न्या मम नियमतः खामी सन्नपि मां मुखेन दयिते इति व्यपदिशन्नपि त्वं पर इवाविचारित सुखदुःखपरिणामं व्यवहरसि, यतः प्रत्यक्षमेव मत्सपत्नीषु स्निह्यसि, अहो तेऽलौकिकः प्रणयः स्नेहसद्व्यवहारश्चेति गूढोपालम्भेऽतिशयो ध्वन्यते ।
विप्रलब्धाया विरहवेदनामनुरागातिशयं च सूचयन्ती दूती नायकमाह-
एहिसि तुमं तिणिमिसं व जग्गिअं जामिणीअ पढमद्धम् । सेसं संतावपरवसाइ वरिसं व बोलीणम् ॥ ८५ ॥
[ एष्यसि त्वमिति निमिषमिव जागरितं यामिन्याः प्रथमार्धम् । शेषं संताप परवशाया वर्षमिव व्यतिक्रान्तम् ॥
निमिषमिव हि जागरितं रात्रेः प्रथमार्धमेष्यसि त्वमिति । संतापपरवशाया वर्षमिव व्यतिगतं शेषम् ॥ ८५ ॥
त्वमेष्यसि इत्युत्साहेन रात्रेः प्रथमार्धं निमिषमिव निमेष इव जागरितम्, तयेति शेषः । रात्रेः प्रथमार्थमित्यत्यन्तसंयोगे द्वितीया । संपूर्णेप्यर्धरात्रे सा सोत्साहं जागरितवतीति भावः । शेषम् अवशिष्टमर्द्ध संतप्तायास्तस्या नायिकाया वर्षमिव व्यतिक्रान्तम् । शेषोस्यास्तीत्यर्श आद्यच्, अन्यथा क्लीबतानुपपत्तेः । संस्कृते तु पुंस्त्वमेव साधु । तव समागमस्य भावनामात्रेणापि कालहरणं न दुःखकरम्, वियोगे तु घटिका अपि वर्षायन्त इति नायकानुरागो ध्वन्यते । भावनामात्रेणापि तावान्सुखातिशयस्त्वत्समागमे तु किं वाच्यं तस्या इति तदतिशयो द्योत्यते ।
वैचित्त्येन भ्राम्यन्तीं प्रोषितपतिकां भूतोन्मादभयात्परिहरन्तं जनं प्रति तत्सखी सदैन्यमाह—
अवलम्ब मा सङ्ग्रह ण इमा गहलडिआ परिब्भमइ । अत्थकगज्जिउन्भन्तहित्यहिअअ पहिअजाआ ॥ ८६ ॥ [ अवलम्बध्वं मा शङ्कध्वं नेयं ग्रहलङ्घिता परिभ्रमति । आकस्मिकगर्जितोद्धान्तत्रस्तहृदया पथिकजाया ॥ ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org