________________
१९६
काव्यमाला |
नपयोधराया अस्याः सौन्दर्यं कीदृग्भावीति भावनीयमेवेति भावः । मुग्धवध्वा इत्यनेन 'साम्प्रतमस्या मुग्धता, पूर्णयौवनोपलब्धौ प्रवर्धमानसौन्दर्यामिमामालक्ष्य पतितकुचायां मयि शिथिलानुरागो भविष्यति वल्लभः' इति चिन्ताख्यसंचारिभावेन दीर्घनि:श्वासरूपानुभावेन च प्रथमपत्नीगतस्य नायकालम्बनस्यानुरागस्य परिपोषो भवतीति सहृदयैराखादनीयम् । गृहिणीपदेन — गृहप्रबन्धमात्रे तस्या अधिकारः स्याद्दयितस्य विषये तु मुग्धाया एव प्रभुत्वं भवेदिति चिन्तातिशयो ध्वन्यते । दीर्घं श्वसितमित्यनेन भाविनीं तामिमां हृदयवेदनां कस्मै प्रकाशयामीति निगूढो दुःखातिशयो ध्वन्यते । " आयतिखेद - करं तदात्वेपि खेदयतीति निदर्शयन्कोपि सहचरमाह” इति गङ्गाधरः ।
शिथिलानुरागं नायकं श्रावयितुं काचित्करिकरेण्वोरनुरागं व्यपदेशेनाहगरुअछुहाउलिअस्स वि वल्लहकरिणीमुहं भरन्तस्स । सरसो मुणालकवलो गअस्स हत्थे चित्र मिलाणो ॥ ८३ ॥ [ गुरुकक्षुधाकुलितस्यापि वल्लभकरिणीमुखं स्मरतः ।
सरसो मृणालकवलो गजस्य हस्त एव ग्लानः ॥ ] विकलस्यापि क्षुधया वल्लभकरिणीमुखं स्मरतः । सरसो मृणालकवलो गजस्य कर एव संम्लानः ॥ ८३ ॥
,
क्षुधा विकलस्यापि अत्यन्तं क्षुधातुरस्यापि । वल्लभायाः करिण्या मुखम् । कर एव संम्लान इत्यनेन क्षुधातिशयान्मृणालकवलं परित्यक्तुमपि न शक्नोति, प्रियास्मरणात्तं भोक्तुमपि न पारयतीति जडताख्यसंचारिभावोऽभिव्यज्यते । तथा च - मदमत्तत्वेन जगति प्रसिद्धः पशुर्गजोपि निजप्रेयस्यामेवं स्निह्यति भवान्परमसहृदयोपि मामपहाय अन्यत्रानुरज्यसि, अहो भवतो दाक्षिण्यमिति गूढोपालम्भो ध्वन्यते । क्षुधाकुलस्यापीत्यनेन क्षुधया भोजनस्यावश्यकतायां सत्यामपि गजो न तं भुङ्क्ते, भवांस्तु मत्सत्तया उत्कण्ठापनयेन उत्कटावश्यकताऽभावेऽपि अन्याभिः संगच्छते इत्युपालम्भेऽतिशयः सूच्यते । करिणीमुखमित्यनेन पूर्वं तस्या मुखे कवलं समर्प्य पश्चान्मया भोक्तव्यमिति मत्या रतेरतिशयः प्रतीयते । स्वभावतः सरसस्यापि मृणालस्य सरसो म्लान इति सरसता विशेषणेन सद्यस्कत्वं जललवलाञ्छितत्वं च लक्ष्यते, ततश्च तथाविधस्यापि म्लानिवर्णनाद्विलम्बो व्यज्यते ।
मानावलम्बनेपि प्रियतमेन सह दाक्षिण्येन वर्तितव्यमित्युपदिशन्ती काचिद्धीराया नायिकायाः प्रियतमेन सह परस्परसंलापं वर्णयति -
पसिअ पिए का कुविआ सुअणु तुमं परअणम्मि को कोवे । को हु परो नाथ तुमं कीस अपुण्णाण मे सत्ती ॥ ८४ ॥ [ प्रसीद प्रिये का कुपिता सुतनु त्वं परजने कः कोपः । कः खलु परो नाथ त्वं किमित्यपुण्यानां मे शक्तिः ॥ ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org