________________
४ शतकम् ]
संस्कृतगाथासप्तशती ।
१९५
. व्यसने दुःखे उद्वेगरहिताः । भये उपस्थितेपि अविचलचित्ताः । समेषु आत्मनोऽनुकूलेषु विषमेषु आत्मनः प्रतिकूलेषु उभयविधेष्वपि स्थलेषु सत्पुरुषाः अविषमशीला अभिन्नस्वभावा भवन्ति, स्वभाववैषम्यं न दर्शयन्तीत्यर्थः । भयं परिहाय धैर्येण कार्य कर्तव्यमिति दूत्या नायक प्रोत्साहनमभिव्यज्यते । 'कोपि सहचरस्य गाम्भीर्यशिक्षार्थ सत्पुरुषप्रशंसामाह' इति गङ्गाधरावतरणम् ।
प्रातः प्रियतमास्मरणोत्कण्ठया गीतं पथिकजनगीतमाकर्ण्य समुद्दीपितविरहुतवह काचित्प्रोषितपतिका सखीमाह
अज सहि केण गोसे कं पि मणे वल्लहं भरन्तेण । अम्हं मअणसराहअहिअअवणफोडनं गीअम् ॥ ८१ ॥ [ अद्य सखि केन प्रातः कामपि मन्ये वल्लभां स्मरता । अस्माकं मदनशराहतहृदयव्रणस्फोटनं गीतम् ॥ ]
अद्य सखि केन कल्ये कामपि मन्ये स्ववल्लभां स्मरता । अस्माकं स्मरविशिखाहतहृदयत्रणविघट्टनं गीतम् ॥ ८१ ॥
-
कल्ये प्रातः । 'प्रत्यूषोहर्मुखं कल्यं' इत्यमरः । खां वल्लभां स्मरता, रात्रौ मार्गगमनश्रमेण कथंचिदायाता निद्रा । अत एव अतिप्रत्यूषे निद्राभोत्तरं पुनः प्रियास्मरणमवृत्तमिति विरहातिशयो व्यज्यते । केन केनचित् । स्मरविशिखैराहतं यद् हृदयं तस्य व्रणानां विघट्टनं स्फोटनं यस्मिन्कर्मणि यथा भवति तथा गीतम् । कामबाणैर्विद्धस्य विरहिहृदयस्य पीडा प्रातःकाले कथंचित्सह्यवेदना जातापि, करुणकरुणेन पथिकगीतेन स्फुटितव्रणवदधिकदुःसहा भूदित्यर्थः । तद्धृदयस्य चित्तौत्सुक्यादिकं भावनया आत्मसंबन्धि समभवदत एवं प्रियतमविरहानलः समुददीप्यतेति भृशं प्रियचिन्तया नायिकागतस्यानुरागस्यातिशयः प्रतीयते ।
भाविनः सपत्नीर्ष्यादुःखस्य भावनामात्रमपि सपत्नीजनं पीडयतीति काचित्प्रौढा
स्ववयस्यामाह -
उट्टन्तमहारम्भे थणए दट्ठूण मुद्धबहुआए । ओसण्णकवोलाए णीससिअं पढमघरिणीए ॥ ८२ ॥ [ उत्तिष्ठन्महारम्भौ स्तनौ दृष्ट्वा मुग्धवध्वाः । भवसन्नकपोलया निःश्वसितं प्रथमगृहिण्या ॥ ]
आलोक्य मुग्धवध्वाः स्तनौ समुदयन्महारम्भौ । दीर्घ प्रथम गृहिण्या ह्यवसन्नकपोलया श्वसितम् ॥ ८२ ॥
समुदयन् उत्तिष्टन् महान् आरम्भः प्रारम्भदशा ययोस्ती । अवसन्नौ शुष्कौ कपोली यस्यास्तया । आरम्भदशायामेव स्तनयोरियान् परिणाहस्तर्हि पूर्णयौवने परस्पराश्लिष्टपी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org