________________
१९४
काव्यमाला |
अनुशिक्षमाणायाः तत्तत्पूर्वोक्तं करणादिकमनुशिक्षमाणायाः, अनुकरणं कृत्वा शिक्षमाणायाः । त्वदाचरणस्य त्वद्भाषणस्य त्वद्विलोकनस्य चानुकरणेन विरहवेदनां विनोदयत्यास्तस्या दिवसोपि लघुर्भवतीत्यर्थः । अपिपदेन संपूर्णो दिवसोपि दीर्घो न प्रतीयत इति सूच्यते । तथाच - त्वन्मयत्वात्त्वद्विर हे त्वद्भावनयैव सा समस्तं दिवसं यापयति, न देहकार्यमपि करोति, एवं किल तस्यास्त्वय्यनुराग इति नायकं प्रति द्योत्यते । जल्पनादेरनुकरणे - तव कृति - भाषणादिकं तस्या हृदि तथा मधुरं प्रतीयते यथा सा स्वयमपि तदनुकरणे विवशा भवतीति गुणमुग्धत्वसूचनेन नायक प्रोत्साहनं ध्वन्यते । जं जं करेसीत्यादिवाक्यद्वये वीप्सायामपि, तृतीये 'जह तुम' इत्युपलब्धपाठे तद्भङ्गः, परं मच्छायायां तत्रापि वीप्सानिर्वाह इति द्रष्टव्यम् । 'जह तुम' इत्यत्र यथा येन प्रकारेण त्वं पश्यसीति त्रकारनिर्देशान्न वीप्साया आवश्यकतेति सिद्धस्य समाधानम् ।
रात्रौ निवासार्थं स्थानं शयनीयं च याचते पथिकाय कयाचित्साक्रोशं तृणान्येव दत्तानि । अनन्तरं तु तद्रूपलावण्यमुग्धा सा तेन संसक्ताभूत् । अत एव तद्गुणमुग्धतया प्रभाते विरहकातरायास्तस्या अवस्थां स्वमार्मिकताप्रदर्शनाय नागरिकः सहचरमाह
भण्डन्ती तपाईं सोत्तुं दिण्णाइँ जाइँ पहिअस्स । ताईचे पहाए अजा आअट्टइ रुअन्ती ॥ ७९ ॥
[ भर्त्सयन्त्या तृणानि स्वप्तुं दत्तानि यानि पथिकस्य । तान्येव प्रभाते आर्या आकर्षति रुदती ॥ ]
शयितुं हि भर्त्सयन्त्या तृणानि दत्तानि यानि पथिकस्य । तान्येव हन्त रुदती वरतनुराकर्षति प्रातः ॥ ७९ ॥
भर्त्सयन्त्या नात्र स्थानमिति कलहं कुर्वाणया । शयितुं शयनार्थम् । वरतनुरार्या । तद्गतचित्ततया तान्येव तृणानि रुदती सती आकर्षति । पूर्वं यानि तृणान्यवहेलया शयनार्थं दत्तानि तान्येव पथिकगुणस्मरणाद्रुदत्या पथिकाङ्गसङ्गभावनया सगौरवमवचितानीत्यर्थः । पथिकासक्तहृदयतया तद्विरहे सा भृशमुत्तप्ता भूदिति स्वस्य प्रणयपरिज्ञानपाटवं सुहृदं प्रति सूच्यते वक्त्रा ।
गृहजनभयेन मनोभिलषितामपि नायिकां नोपसरन्तं नायकं सत्पुरुषस्वभाववर्णनच्छलेन दूती बोधयति
वसम्म अणुव्विग्गा विहवम्मि अगव्विआ भए धीरा । होन्ति अहिण्णसहावा समेसु विसमेसु सप्पुरिसा ॥ ८० ॥ [ व्यसनेऽनुद्विग्ना विभवेऽगर्विता भये धीराः । भवन्त्यभिन्नस्वभावाः समेषु विषमेषु सत्पुरुषाः ॥ ] व्यसनेऽनुद्विग्नाः किल भयेपि धीरा अगर्विता विभवे । भविषमशीलाः सन्ति हि समेषु विषमेषु सत्पुरुषाः ॥ ८० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org