________________
४ शतकम् ] संस्कृतगाथासप्तशती।
१९३ सहे । अत एव लब्धसाहसस्त्वमपराधान् कर्तुं पारयसि । एवंगुणानुरक्तायां मयि नोचितं ते व्यलीककरणमित्युपालम्भो ध्वन्यते । दोषा न मान्त्येवेत्यनेन दोषाः प्रतिपदं ते जायन्ते, किन्तु त्वद्गुणानुरक्तहृदयया मया न ते गृह्यन्ते इत्याक्रोशो व्यज्यते । विषहामहे इति बहुत्वोक्त्या केवलमस्माभिरेव न अन्याभिरपि त्वयि कृतानुरागामिर्भवदपराधाः सोढव्या भवन्तीति सूच्यते, आत्मगौरवं वा ध्वन्यते । मुहुर्मुहुरपराधेषु सत्स्वपि त्वदनुरागवशीकृताया न मे परिजानासि धैर्यमहो ते सुभगतादर्प इति सुभगपदसहकृतं वस्तु ध्वन्यते । अस्यां गाथायामपराध्यस्वेत्यात्मनेपदं गङ्गाधरकृतच्छायायां व्याकरणविरुद्धत्वाद्विच्छायमेव ।
नायकसमीपगामिनं पान्थं प्रति नायिकाया विरहवेदनां प्रतिपादयन्ती सखी संदिशति
भरिउच्चरन्तपसरिअपिअसंभरणपिसुणो वराईए । परिवाहो विअ दुक्खस्स वहइ णअणहिओ वाहो ॥ ७७॥ [भृतोञ्चरत्प्रसृतप्रियसंस्मरणपिशुनो वराक्याः ।
परीवाह इव दुःखस्य वहति नयन स्थितो बाष्पः ॥] भरितोच्चरत्प्रविसृतप्रियसंस्मरणाभिसूचको बाष्पः ।
नयनस्थितो वराक्या दुःखपरीवाह इव वहति ॥ ७७॥ भरितः पूर्णः अतएव नयनमुत्क्रम्य निर्गच्छन् , प्रविसृतः प्रवृद्धः । तथा प्रियसंस्मरणस्याभिसूचको वराक्या दीनायास्तस्या नयनस्थितो बाष्पो दुःखस्य प्रवाह इव वहति । दुःखप्रवाहोपि पूर्णत्वे सति आधारदेशमुल्लङ्घय गच्छन् प्रियस्मरणसूचको भवतीति द्वयोरपि तदिदं विशेषणम् । नायमथुप्रवाहः किन्तु प्रवृद्धत्वादहिर्निर्गच्छन्प्रियविरहजन्मा दुःखप्रवाहोयमित्यपह्नुतिर्ध्वन्यते । पर्यन्ततस्तु 'विरहवेदनया परिपूर्ण दुःखितामत एव दयनीयामिमां त्वरितं संभावयस्ख' इति नायक प्रति ध्वन्यते । 'नायिकाया विरहार्ति प्रतिपादयन्ती दूती नायकं त्वरयितुमाह' इति गङ्गाधरावतरणम् । अत्र प्रियमेवाभिमुखीकृत्य कथनेपि पुनः 'प्रियसंस्मरण' इत्युक्तेन खारस्यमिति मन्मतिः। नायिकायाः प्रणयातिशयं द्योतयन्ती दूती नायकमाह
जं जं करेसि जं जं जप्पसि जह तुम णिअच्छसि । तं तमणुसिक्खिरीए दीहो दिअहो ण संपडइ ॥ ७८॥ [यद्यस्करोषि यद्यजल्पसि यथा त्वं निरीक्षसे ।
तत्तदनुशिक्षणशीलाया दी| दिवसो न संपद्यते ॥] यद्यत्करोषि यद्यजल्पसि यद्यनिरीक्षसे त्वं हि । दी? दिवसोपि भवति, न तत्तदनुशिक्षमाणायाः ॥ ७८ ॥ सं. गा. १७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org