SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ १९२ काव्यमाला | [ निद्राभङ्ग आपाण्डुरत्वं दीर्घाश्च निःश्वासाः । जायन्ते यस्य विरहे तेन समं कीदृशो मानः ॥ ] आपाण्डुरता निद्राभङ्गो दीर्घाश्च निःश्वासाः । जायन्ते यद्विरहे तेन समं कीदृशो मानः ॥ ७४ ॥ यद्विरहे यस्य विरहे । विरहकार्येन आ - ईषत् पाण्डुरता, अधिकाया रोगरूपत्वासप्रातिकूल्यम् । नाहं तस्य विरहं मनागपि सोढुं क्षमेत्यात्मनोऽनुरागातिशयो द्योत्यते । कथं कुपितासीति नायकेन पृष्टाया धीरानायिकाया उक्तिरियमिति केचित् । प्रियव्यलीकैः सुभृशमुपतप्ता काचन तं प्रति सप्रणयकोपोपालम्भमाह तेण ण मरामि मण्णूहिँ पूरिआ अञ्ज जेण रे सुहअ । तोग्गअमणा मरन्ती मा तुज्झ पुणो वि लग्गिस्सम् ॥ ७५ ॥ [ तेन न म्रिये मन्युभिः पूरिताद्य येन रे सुभग । त्वद्रुतमना म्रियमाणा मा तव पुनरपि लगिष्यामि ॥ ] विसृजामि तेन नासून् मन्युभिरभिपूरिता सुभग येन । म्रियमाणा मा पुनरपि लप्स्ये त्वां त्वद्गतखान्ता ॥ ७५ ॥ मन्युभिर्हृदयोपतापजातैः क्रोधः पूरिता 'मन्युदैन्ये ऋतौ क्रुधि' इत्यमरः । बहुवचनेन 'भवता वारंवारमेव विप्रियमाचर्यते येन मे मुहुः क्रोधः' इति द्योत्यते । असून् प्राणान् । त्वद्गतमनाः सती म्रियमाणा जन्मान्तरेपि पूर्वसंस्कारवशात्त्वामेव विप्रियकारिणं पतिं येन लभेय, तेन प्राणान्न त्यजामीत्यर्थः । तव दुश्चेष्टितैर्भृशमुपतप्य दुःखान्प्रियमाणाप्यहं मरणसमयेपि भवदनुध्यानं न त्यक्तुं क्षमेत्येतावान्मेऽनुरागः । त्वं तु तथापि विप्रियकरणान्न विरमसि । अहो ते सुभगतागर्व इति सुभगसंबोधनोज्जृम्भित उपालम्भः प्रणयश्चाभिव्यज्यते । लगिष्यामीति प्राकृतरौली सुभगमपि संस्कृतबन्धे न सुन्दरमिति 'लप्स्ये' इति परिवर्तितम् | प्रियापराधैः कुपिता काचिद्विदग्धचर्योचितं सुमधुरमुपालभते अवरज्झसु वीसद्धं सव्वं ते सुहअ विसहिमो अम्हे । गुणणिव्भरम्मि हिअए पत्तिअ दोसा ण माअन्ति ॥ ७६ ॥ [ अपराध्यस्व विस्रब्धं सर्वं ते सुभग विषहामहे वयम् | गुणनिर्भरे हृदये प्रतीहि दोषा न मान्ति ॥ ] विषहामहे सुभग ते सर्वम्, विश्रब्धमपराध्य । गुणनिर्भरे हि हृदये प्रतीहि दोषा न मान्त्येव ॥ ७६ ॥ सर्वं भवत्कृतमपराधजातं वयं विषहामहे । विश्रब्धं विश्वासेन सहितं यथा स्यात्तथा अपराध्य अपराधान्कुरु । त्वदीयैर्गुणैर्निर्भरे पूर्णे मम हृदये दोषा मान्त्येव न, अवकाशमेव न लभन्ते इति प्रतीहि विश्वसिहि । अहं त्वगतचित्ततया बलात्सर्वं विप्रियं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001858
Book TitleGathasaptashati
Original Sutra AuthorN/A
AuthorNathuram Shastri
PublisherPandurang Javji
Publication Year1993
Total Pages446
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Literature, & Kavya
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy