________________
४ शतकम् ]
संस्कृतगाथासप्तशती ।
१९१
घनतरुणवयसि रसाकुलया कयाचित्सुरतसमये गणपतिमूर्तिरुपधानीकृता । यौवनावेगशान्तौ तामेव पूजयन्ती सा जरामुपालभते
जो सीसम्मि विइण्णो मज्झ जुआणेहिं गणवई आसी । तं व्वि एहिं पणमामि हअजरे होहि संतुट्ठा ॥ ७२ ॥ [ यः शीर्षे वितीर्णो मम युवभिर्गणपतिरासीत् । तमेवेदानीं प्रणमामि हतजरे भव संतुष्टा ॥ ] शिरसि वितीर्णो युवभिर्गणपतिरिह मम पुरा योऽभूत् । प्रणमामि बत तमधुना तुष्टा भव हतजरे कामम् ॥ ७२ ॥ एकं तद्दिनमासीद्यत्र निर्भरयौवनाया मम तावानाचेगोऽभवत् सर्वमेतदय तिरोहितम् । हतायास्तवैव तदिदं कर्तव्यमिति जरां प्रति सासूय उपालम्भः ।
पामरेणापि दुःसहं विरहदुःखमिति कञ्चित्साकूतमुपालभमाना नायिकासखी निदर्शनविधया आह
अन्तोहुत्तं उज्जइ जाआसुण्णे घरे हलिअउत्तो । उक्खाणिहाणाइँ व रमिअट्ठाणाइँ पेच्छन्तो ॥ ७३ ॥
माह
[ अन्तरभिमुखं दह्यते जायाशून्ये गृहे हालिकपुत्रः । उत्खात निधानानीव रमितस्थानानि पश्यन् ॥ ] जायाशून्ये भवने हालिकतनयो विदह्यतेऽन्तरतः । पश्यन् रमितस्थानान्युत्खात निधानकानीव ॥ ७३ ॥
रमितस्य जायया सह रमणस्य स्थलानि, उत्खातं भूमिमुत्खाय गृहीतं निधानं निधिद्रव्यं येभ्यस्तानि, निधिशून्यानि स्थानानीवेत्यर्थः । पश्यन् सन् अन्तरतः हृदयाभ्यन्तरे दह्यते । निधानकानीवेत्यत्र उत्खातनिधानतया शून्यानि तानि स्थानानि निन्दायोग्यानीति तेषां निन्दाद्योतकः कप्रत्ययः । निधिलाभ इव प्रेयस्याः समागमः, तया विरहितः पामरोपि अन्तः पुटपाकं दह्यते किं पुनः सहृदयः । त्वं च पुनरात्मानं रसिकचूडामणि मन्यसे । ततश्च मत्प्रियसखीविरहमुपेक्षमाणस्य किं ते वक्तव्यमिति नायकं प्रत्युपालम्भो ध्वन्यते । गङ्गाधरस्तु “मृतचौरिकामहिलां शोचन्तं कमप्यन्यापदेशेनाह' इत्यवतरणमुक्त्वा 'विज्ञोपि त्वं मृतचौरिकामहिलां प्रतिशोचसीत्ययुक्तमिति” भावमाह । विरहदुःसहत्वसाधनेन प्रणय सर्वस्वमाविष्कुर्वत्या अस्या गाथायाः 'मृतायाः शोको न कर्तव्यः' इति तात्पर्यकल्पने कियत्स्वारस्यमिति सहृदयैर्विभाव्यम् ।
मानमङ्गीकृत्य दयितानुनय सुखमनुभवेति सख्योपदिश्यमाना काचिन्निजहृदयदशा
णिद्दाभङ्गो आवण्डुरत्तणं दीहरा अ णीसासा | जाअन्ति जस्स विरहे तेण समं कीरिसो माणो ॥ ७४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org